________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किं कृत्वा ? 'प्रपद्य अङ्गीकृत्य, किं ? ' विधुरमपि-व्यसनमपि । अपिः सम्भावने, एतत्सम्भावयति सति सामर्थ्य स्वापायशङ्कया कुपथस्खलनाऽवधीरण त्वनन्तजीवसंसारकारणत्वेन महतेऽनर्थायेति । कस्य विधुरं ? 'स्वस्य' आत्मनः कथं ? सद्यस्ततक्षणात् । किलेत्याप्तवादे । कस्मादेवं जगादेव ? इत्यत आह-कारुण्यामृताब्धिः-'कथमयं जनो मया कुमार्गपथादुद्धरणीयः' इति कृपापीयूषसागरो भगवान् । नहि लोककृपां विना कश्चित्स्वकष्टमङ्गीकरोति । किं कुर्वाण एवं जगादेव ? इत्यत आह-'स्पष्टयन्' प्रकटीकुर्वन् , किं ? कमठमुनितपः-कमठाभिधान-लौकिक-तपस्वि-पश्चाग्निरूप-कष्ठानुष्ठाता 'दुष्टं प्राणिवध-लाभ-पूजा-ख्यातिकामनादिदोषयुक्तं। कथं दुष्टं ? उच्चैरतिशयेन । किं कृत्वा ? 'सन्दर्य' दर्शयित्वा, कं ? 'नाग पञ्चाग्नितपोनिमित्तज्वलिताग्निकुण्डान्तर्वर्ति काष्ठकोटरमध्यगं भुजङ्गं । किं विशिष्टं ? 'वह्निज्वालावलीढं निरन्तरं प्रज्वलद्वद्भिज्वालाव्याप्तं अर्द्धदग्धमिति यावत् । क्व ? 'अग्रे पुरतः, कस्याः ? 'मातुः स्वजनन्याः, न केवलं मातुः, तथा समस्तलोकस्य । कस्मात्सकलजनमध्ये भगवांस्तत्तपस्तिरश्वकार ? यतः 'कुपथमथनधी:' असन्मार्गोच्छेददक्षः। एवं ज्ञानबल-ज्ञातकमठविधास्यमानजलधरधारासम्पातादिस्वापायाभ्युपगमेनापि कमठतपसो दुष्टत्वं स्पष्टयताऽर्थादेतत्प्रत्यपादि-- यत् मद् वद् भवद्भिरपि कुमार्गस्खलनं स्वकष्टाङ्गीकारेणापि कार्यमिति वृत्तार्थः ।। १ ।।
तदेवमिष्टदेवतास्तवमभिधाय-इदानीं सङ्घव्यवस्थोपदेशतचं कथनीयं, तच्च योग्यपुरुषस्य प्रतिपाद्यमानं साफल्यमासादयेत् , तेनोपदेशरहस्यभणनयोग्यं श्रोतारं निरूपयितुमाह
कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ ॥ २ ॥ व्याख्या-'उच्यसे' उपदिश्यसे, त्वमिति युष्मदो श्रोतृनिर्देशः, मयेति कर्तुरात्मनिर्देशः। ततश्च भोः श्रोतः! मया त्वं सङ्घव्यवस्था प्रतिपाद्यसे इत्यर्थः । कस्माद् ? इत्याह-कल्याणाभिनिवेशवानिति । इति शब्दा अत्र सर्वेऽपि हेत्वर्थाः । कल्याण:-शुभोऽभिनिवेश:-आग्रहः, सद्ग्रह इत्यर्थः, तद्वान् , सद्ग्राहिणो हि सदुपदेशरत्नश्रवणे परमानन्दः समुल्लसति १ । तथा गुणग्राहीति-अल्पीयसोऽपि गुणस्य ग्रहणप्रवणः, दोषैकग्राहिणो हि अविद्यमानेऽपि दोषे तग्राहकत्वमेव स्यात् २ । तथा मिथ्यापथप्रत्यर्थीति, मिथ्यापथो वक्ष्यमाणो यथाछन्दप्ररूपितोत्सूत्रमार्गः तस्य 'प्रत्यर्थी' विरोधी, उत्सूत्रमार्ग श्रोतुमप्यनिच्छुः, उत्सूत्रपथाभिलाषुकस्य यथार्थसिद्धान्तोपदेशस्त्रासाय स्यात् । तथा विनीत इति गुर्वादिष्वभ्युत्थानादि करणलालसः, विनीतायैव
For Private And Personal Use Only