________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहंम् नमः। श्रीजिनवल्लभसूरिविरचितः श्रीहर्षराजोपाध्यायविहितलधुवृत्तियुतः
श्रीसंघपट्टकः
वन्दे शान्तिजिनं शान्ति-करं कर्मोत्करोज्झितम् । महोदयेन्दिरोदारं, विघ्नसङ्घातघातकम् ॥१॥ भित्वा दुष्कर्मदुर्ग शमदमबलतः साधिकद्वादशाब्दैलेंभे तीर्थङ्करश्रीः सदतिशयवती लीलया येन नृभ्यः । भक्तेभ्यश्च प्रदत्ता स सुरमणिरहो ! ! इष्टदस्त्वं हि सार्व
स्तेनालं मां कुरुष्व स्वविमल कमलाल कृतं वर्द्धमानः ॥२॥ जिनवल्लभसूरीन्द्रः, कृतः श्रीसङ्घपट्टकः । तद् व्याख्यामल्पधीः कुर्वे, बृहट्टीकाऽनुसारतः ॥३॥
व्याख्या-अथ 'सङ्घपट्ट[क] ' इति कः शब्दार्थः १, उच्यते-' सङ्घस्य' ज्ञानादिगुणसमुदायरूपस्य-साध्वादेश्चतुर्विधस्य 'पट्टको' व्यवस्थापत्रं, यथा राजादयः स्वनियोगिभ्यो व्यवस्थापत्रं प्रयच्छन्ति ' अनया व्यवस्थया युष्माभिर्व्यवहर्त्तव्य '-मिति, एवमिहापि साक्षाद्विपक्षदोषदर्शनद्वारेण स्वपक्षसुसङ्घस्य व्यवस्था वक्ष्यमाणा दर्यत इति सङ्घपट्टकः । तत्रादि-इत्तम्
वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकः ॥ १ ॥ व्याख्या-'स्तुमः' प्रणुमः, अस्मत् य-प्रयुज्यमानेऽप्युत्तमपुरुषप्रयोगकथनाद्वयमिति कर्तृपदं स्वयमिह ज्ञेयं, कं ? देवं, दीव्यते-स्तूयते शक्रादिभिरिति देव; स चात्र प्रकरणात्-अविष्टदेवतात्वेन स्तवाहत्वाजिनः, सोऽपीह कमठतपोदुष्टतास्पष्टनलक्षणासाधारणविशेष[ण]योगात्पार्श्वनाथः । तं देवं स्तुमः, यो जगादेव' प्रतिपादयामासेव । इव शब्दो[ऽत्र उत्प्रेक्षाद्योतकः। किं ? इति तदेवाह-विधुरमित्यादि । 'प्राज्ञैः' प्रेक्षावद्भिः 'कार्य' विधेयं 'कुपथस्खलन' सर्वसामर्थेन पूर्वापराऽविसंवादिशास्त्रविरुद्धमतनिराकरणं ।
For Private And Personal Use Only