________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
जनजडानां श्रृङ्खलेव आत्माऽऽयत्ती कृता ये मूर्खजनाः तेषां बन्धनाय शृङ्खलेव - निगड इव | कस्मिन् सति ? माधुवेषैः- धूर्तेः जिनपतिमतदुर्गे- अर्हच्छासनप्राकारे अभिभूते सति, अर्हच्छासनमेव दुर्गं प्राकारः "कोट" इति भाषया तस्मिन् विषयिभिः - कामिभिः उपद्रुते सति यदा भगवच्छासनमेव दुर्ग प्रकारः धूर्तेः उपद्रुतं तदा तैः धूर्तेः इयं गच्छ स्थितिः निजगच्छ - मुद्रा विस्तारितेत्यर्थः । कुतः अभिभूते सति ? कालतः दुःषमाकालदोषात् । कैः ? भस्मकम्लेच्छसैन्यैः, यथा म्लेच्छसैन्यं कस्मिश्चिदपि दुर्गे स्वभुजबलेन गृहीते द्रव्यार्थं तदन्तर्वर्त्तिनागरिकलोकबन्धनाय शृङ्खला प्रसारयति च तथा लिङ्गिनः स्वकार्यार्थं मूर्खजनबन्धनाय गच्छस्थितिं प्रसारितवन्त इत्यर्थः ॥ ३९ ॥
संप्रत्यप्रति कुङ्घवपुषि प्रोजृम्भिते भस्मक ॥ ४० ॥
व्याख्या 'संप्रत्य - प्रतिमे ० ' ॥ इत्थं - अमुना प्रकारेण लोकैः वयं कदर्थ्यामहेउपहस्यामहे । कया ? सदागमस्य कथयापि - शुद्ध सिद्धान्तधर्मस्य देशनाविचारमात्रे
। किं कृत्वा ? एकीभूय - एकमतं कृत्वा । कथम्भूते लोकैः १ तदाज्ञापरैः - मोहराजाज्ञापरैः । कस्मिन् सति ? मोहराजकटके प्रौढिं जग्मुषि सति, कोऽर्थः ? मिथ्याज्ञानराजसैन्ये प्रौढतां याति सति । न केवलं मोहराजकटकै प्रौढिं जग्मुषि सति प्रागुक्तकसङ्घशरीरे प्रोज्जृम्भिते सति - अभ्युद्यते सति पुनः कस्मिन् सति ? दुरन्तदशमाचर्यम् - असंयतपूजालक्षणम्, तस्मिन् विस्फूर्जति सति । कुसङ्घवपुषि । किम्भूते ? संप्रति - अधुना अप्रतिमे - अमडशे कथम्भूते दशमाश्चर्ये ? भस्मकम्लेच्छा तुच्छबले - भस्मराशितुरुष्काधिपतिसैन्यैः - भस्मको भस्मराशिग्रहः, स एवाईच्छासनरतानामेकवाघाविधायित्वात् म्ले च्छाः-तुरुकास्तेषां सैन्यैः । यथा कश्चिन्महाराजाधिराजो म्लेच्छा महा सामन्तैर्भूमण्डलं साधयति तथा अयमपि मोहराजा भस्मकादिभिर्जिनशासनमतिलङ्घयतीत्यर्थः ॥ ४० ॥
वृत्तिकार - प्रशस्तिः ।
क जिनवल्लभसूरि सरस्वती, क्व च शिशोर्मम वागूविभवोदयः ।
शुकवचोदिमां सुजनाः खलु, श्रवणयोः कुतुकात् प्रकरिष्यथ ॥ १ ॥
येनावृतं जगदिदं करुणात्मकेन ॥ २ ॥
श्रीवीरदास इति वीर जिनेश्वरस्य पादाब्जपूजनपरायणचित्तवृत्तिः । श्रीमानभूदमल कीर्तिवितानकेन तस्यात्मजोऽभवदनन्तगुणाः समग्र-सम्यक्त्व संग्रह वित्रर्द्धित पुण्यराशिः । श्रीमन् हमीर इति धीरतरः शरीरः, वाक् कर्महद्भिरनिशं जिनपूजनायः ॥ ३ ॥
For Private And Personal Use Only