________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवल्लभगणिविनिमितम
श्रीयोगिनः श्रावकनायकस्य, श्रीपोरवाडान्वयदीपकस्य । भार्या जनार्या जसमादिदेवी, दिदेव देवीव कृतेप्सितार्था ॥४७॥ या रूपरम्भा रतिरूपजेत्री, स्वस्वामिसेवारतिरङ्गनेत्री । अनन्यसौजन्य सुरञ्जितान्या, सा' भासते सर्वजनाभिमान्या ॥४८॥ 'नान्यादिकाकीत्यभिधा द्वितीया, साऽभूद् द्वितीया स्वगुणाऽद्वितीया । ररज या सर्वकुटुम्बलोकान्, श्रीयोगिनो भोगपुरन्दरस्य ।।४६।।
इति श्रोयोगिनो द्वे स्त्रियो।
तत्रादिमा -ऽसूत तनूजयुग्मं, हृद्याऽनवद्याऽवयव रत्नम् । श्रीसोमजीति प्रवरेण नाम्ना, शिवाभिधानं शिवदं द्वितीयम् ॥५०।। स्पृष्ट्वा च दृष्ट्वा स्वकरैश्च नेत्र-रानन्दवृन्दस्तिमितैस्तदिष्टम् । ननन्दतुस्तौ पितरौ पटू द्वौ, हर्षो हि सर्वस्य सुपुत्रलाभे ॥५१॥ अथ प्रवृद्धं विबुधं बुधेभ्यो-ऽनवद्य विद्याऽध्ययनाद् व्यभात्तत् । लब्ध्वा वरं यौवनमुत्सवोधैः, क्रमाच्च कन्ये खलु पर्यणेष्ट ॥५२॥ तत्राऽऽदिमः स्थामसुधामधाम, श्रीसोमजोः सोमसमाऽऽननश्रीः । सौभाग्यभाग्योदयतश्च पुण्यात्, कन्यामुपायंस्त पुनः प्रशस्ताम् ॥५३॥
अथ सोमजीवर्णनम् यस्मात्सदा सर्वजनीनमुख्याद्, वनीपकौघो वननेन्धनानि । ववान चोर्वीशचयो यदंह्री, श्रीसोमजी: सोऽत्र चिरं जिजीव ॥५४।। ___व्या०-'वनयी याचने' तनादिरात्मनेपदी, ययाचे इत्यर्थः । 'वनषन सम्भवतो, भ्वादिः परस्मैपदी, सिषेवे इत्यर्थः ।।५५॥ सौम्याकृतिः सौम्यमतिर्महीया-नौदार्यचातुर्य सुशौर्यवर्णः । योऽखण्डयत् सौम्यगुणेन चन्द्रं, श्रीसोमजीः सोऽत्र चिरं जिजीव ।।५५ ।
१. जसमादे । २. नानी काकी। ३. जसमादे। ४. तत्पुत्रयुग्मम् । ५. माता च पिता च पितरो मातापित्रावति पितृशब्दशेषः। ६. पटुश्च पट्वी च पटू पुरुषः स्त्रियेति पुरुषशब्दस्य शेषः। ७. सोमजी शिवा नाम लक्षणं पुत्रयुग्मम् ।
For Private And Personal Use Only