________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
तथा चोक्तम्
“ अशिष्यस्यापराधेन किं धर्मो मिलनो भवेत् ।
न हि भेके मते याति समुद्रः पूतिगन्धताम् ॥" अन्यच्च" कालः सम्प्रति वर्तते कलियुगः सत्या नरा दुर्लभाः
देशाश्च प्रलयं गताः करभरैर्लोभं गताः पार्थिवाः । नाना चोरगणा मुषन्ति पृथिवीं भार्यो जनः क्षीयते
साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः ॥" तदनन्तरं श्रेष्ठी झटिति चैत्यालयं गतः । देववन्दनां कृत्वा भणति-भो परमेश्वर, यदा ममायमुपसर्गो गच्छति तदानपानादि प्रवृत्तिर्नान्यथेत्युच्चार्य देवस्याग्रे संन्यासेन स्थितः । घोटकवृत्तान्त सर्वमपि श्रुवा कुपितेन राज्ञा भाणितं-सूरदेवस्य शिरश्छेदं विहायान्यत् किमपि न करणीयं । राज्ञः समीपस्थैरपि तथैव भणितं-" यथा राजा तथा प्रना” इति ।
ततो यमदंडतलवरमाकार्य राज्ञा भणितं-रे यमदंड, मदीयशत्रुसूरदेवस्योत्तमाङ्गं छेदयित्वा झटिति समानय मम समीपे । तथा च
" धर्मारभे ऋणच्छेदे कन्यादाने धनागमे ।
शत्रुघाताग्निरोगेषु कालक्षेपं न कारयेत् ॥" उत्पाटितकृपाणो यमदंडो यावदुपसर्ग करोति तावच्छासनदेवतया स्तंभितो यमदंडः । एतस्मिन् प्रस्तावे घोटकमारुह्य चैत्यालयं त्रिःप्रदक्षिणीकृत्य देवस्याग्रे स्थितो विद्याधरपतिस्तदा श्रेष्ठिनो व्रतप्रभाव दृष्ट्वा देवैः पंचाश्चर्य कृतमेतत्समस्तमपि वृत्तान्त श्रुत्वा राज्ञाऽभाणि
For Private And Personal Use Only