________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
सम्यक्त्व-कौमुद्यां
द्वितीयदिने नगरदेवतयागत्य यथा नगरलोकाः पश्यन्ति तथोमयस्य रत्नमंडपस्योपरि महाभिषेकः, पूजा, पञ्चाश्चर्य च कृतमेतत् सर्व दृष्ट्वा राज्ञा भणितं-जिनधर्म एव सर्वापदं हरति नान्यः । तथा च
" धर्मः शर्म परत्र चेह च नृणां धर्मोन्धकारे रविः
सर्वापद् प्रशमक्षमः सुमनसां धर्मो निधीनां निधिः ॥ धर्मो बन्धुरबान्धवे पृथुपथे धर्मः सुहृन्निश्चलः
संसारोरुमरुस्थले सुरतरु स्त्येव धर्मात्परः ॥" तदनन्तरं स्वस्वपुत्रं स्वस्वपदे संस्थाय्य नरपालेन राज्ञा, मदनवेगेन मंत्रिणा, राजश्रेष्ठिना समुद्रदत्तेन, पुत्रेणोमयेन चान्यैश्च बहुभिः सहस्रकीर्तिमुनिनाथसमीपे तपो गृहीतं । केचन श्रावका जाताः केचन भद्रपरिणामिनश्च जाताः ।
राज्या मदनवेगया, मंत्रिभार्यया सोमया, राजश्रेष्ठिभार्यया सागरदत्तयाऽन्याभिश्च बह्वीभिरनन्तमत्यार्यिकासमीपे तपो गृहीतम् । काश्चिच्च श्राविका जाताः।
ततः कनकलतया भणितं-हे स्वामिन् , एतत् सर्व मया प्रत्यक्षेण दृष्टं । तदनन्तरं मम दृढतरं सम्यक्त्वं जातं। अर्हद्दासेनोक्तं-भो भार्ये, यत् दृष्टं त्वया तत् सर्वमहं श्रद्दधामि, इच्छामि, रोचे । अन्याभिश्च तथैव भणितं । कुन्दलतयोक्त–मेतत् सर्वमप्यसत्यम् । ततो राज्ञा मंत्रिणा चौरेण स्वमनसि भणित-महो, कनकलतया यत् प्रत्यक्षेण दृष्टं तत् कथमसत्यमियं पापिष्ठा कुन्दलता निरूपयति । प्रभातसमये गर्दभे चटाप्यास्या निग्रहं करिष्यामो वयं । पुनरपि
For Private And Personal Use Only