SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तथा च- www.kobatirth.org सप्तमकथा । Acharya Shri Kailassagarsuri Gyanmandir योऽत्ति स सर्वव्याधिरहितो भवति । न कदाचिदपि म्रियते । दुखं न विलोकयति, ज्ञानेन सचराचरं जानाति । पूर्वमतीव वृद्धा, इन्द्रेणैतत्फलभक्षणार्थमहमत्र स्थापिता । एतत् फलभक्षणेनाहं नवयौ - वना जातेति । एतद्वचनं श्रुत्वोमयेनोक्तं - भो भगिनि, ममाज्ञातफलभक्षणे नियमोस्ति, किमेतैरतिशयैः । किंतु यल्ललाटलिखितं तदेव भवति नान्यदिति किं बहुजल्पितेन । उमयस्यैतद्धर्यं दृष्ट्वावनदेवतयोक्तं- भो पथिक, तव तुष्टाहं वरं वाञ्छ ! तेनोक्तं- यदि तुष्टासि तर्हि मम सहायानुत्थापय । उज्जयनीनगरीमार्ग च दर्शय । तयोक्तं तथास्तु । - " उद्यमः साहसं धैर्य बलं बुद्धिः पराक्रमः षडेते यस्य तिष्ठन्ति तस्य देवोपि शक्यते ॥ " तथा च ततः सर्वेप्युथापिताः तदनन्तरं तैर्भणितं - भो उमय, तव प्रसादेन वयं जीविताः । तव व्रतमाहात्म्यमद्य दृष्टमस्माभिः । तव किमप्यगम्यं नास्ति । ९१ ततस्तया मार्गोपि दर्शितः । सहायैः सह स्वगृहमागत उमयः । सच्चरित्रवन्तमुमयं दृष्ट्वा पूर्ववृत्तान्तं श्रुत्वा च पितृमातृराजामंत्रिस्वजनपरिजनादिभिः प्रशंसितः । अहो धन्योसि त्वं, महत्संयोगेन त्वमपि पूज्यो जातः । " उत्तमैः सह संगत्या पुमानामोति गौरवम् । पुष्पैश्व सहितस्तन्तुरुत्तमाङ्गेन धार्यते ॥ " For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy