________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न
प्रद्युम्न स्तश्चैश्वर्ययुक्तेन । दुर्योधनमहीभुजा ॥ लिखित्वा प्रेषितो लेखो। दृतेन सह शाङ्गिणः ॥३॥
यनेहसाचिरेणैव । दूतोऽपि द्वारिकापुरि ।। एत्य नत्वा हरि लेख–मर्पयामास मंत्रिणः ॥ ३३ ॥
मंत्रिणापि समादाय । द्रागुन्मुद्य च पाणिना ॥ विनयात्पददे लेखः । सन्नास्थस्य वृषाकपेः ॥३४॥ १५७ सचिवस्य प्रदानेन । गृहीत्वा पाणिनात्मनः ॥ कृष्णोऽप्यवाचयत्तं कः । शुनोदंते हि नोद्यमी ।।
॥ ३५ ॥ वाचयित्वा स्वयं लेख । मंत्रिणोऽर्पयदच्युतः ॥ थानंदकारको लेखो । द्वितीयस्य हि दी. यते ॥ ३६ ॥ सचिवोऽपीशचित्तझः । श्रावणार्थ सनासदां ॥ वाचयामास तं लेखं । स्फुटार्थ प्रमदं वदन ॥ ३७ ॥ स्वस्तिश्रियां महागारं । कल्याणकलशं सतां ॥ निर्मलकेवलालोका-लोकिता लोकलोककं ।। ३० ।। श्रीमंतं तं जिनं नत्वा । तत्वातत्वार्थवादिनं ॥ श्रीमत्यां दारवत्यां च । ह. स्तिनागाभिधात्पुरात् ॥ ३ए । दुर्योधनो भवद्भ्यः । सप्रणाम ससंमदः ॥ लिखति प्रबलप्रेमपूरेण प्रीतिपत्रिकां ॥ ४० ॥ यथा काये समस्त्यत्र । कुशलं कृपया तव ॥ तत्रत्यो नः समस्तोऽप्यु
-दंतो झाप्यो विशेषतः ॥ ४१ ॥ यत्र स्थितोऽप्यहं यौष्मा-कीण एवास्मि सेवकः ॥ यूयं तु | परमाजीष्टा । वर्तध्वे बांधवा मम ॥ ४२ ॥ ततो विज्ञपयाम्युच्चैः । संबंध कर्तुमावयोः ।। महद्भिरपि
For Private and Personal Use Only