SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.b org Acharya Shri Kailassagersuri Gyanmandir शान्तिनाथ आस्यति । हे जिन ! इह जगति पूतं पवित्रं वा मागों यया सा पूतवर्मा, धृतिश्चासौ पूतवा च धृतिपूतवा, धृतिर्निविका-जिनस्तोत्रं रचित्तत्वं चेतसि विकाररहिते सति प्रवृत्तिरूपो मार्गों निर्दोषो भवति । शितप्रवृत्तेः कामादिजन्यत्वात् पवित्रमार्गों धृतिरूपा नदी सरित | नद्यपि पूतमार्गा भवतीयमपि तादृशी ते तवास्यमेवार्णवः मुखमेव समुद्रस्तस्मात् जावाऽत एवाऽपूर्वा नदी नद्यस्तु पर्वतेभ्यो जायन्ते, समुद्र प्रविशन्ति न तु समुद्रात् जननं, इयं तु समुद्रजाताऽतो नूतना यथा समुद्र असंख्यरत्नविशिष्टो भवति, मुखसमुद्रोऽपि तत्सदृश इत्याह-कथं भूतात् आस्यार्णवात् , असंख्येया अपरिमिताश्च ते सारगुणाः श्रेष्ठगुणाश्च त एव रत्नानि तेषां चयः समूहो यस्मिन् सतस्मात् चापूर्व नूतन च सत् शशांकस्य चन्द्रस्य बिम्बम् च तत् तव मुखसमुद्राजातं, कथं भूतं ? जगल्लोके विशेषेण द्योतयति प्रकाशयतीति जगत्प्रकाशक लोकाज्ञाननाशकत्वात् , चन्द्रोऽपि तिमि विनाश्य प्रकाशयति प्रकर्षेण भावा धर्माः शान्त्यादयस्तैः शिशिरं शीतलं शान्त्यादिबोधकत्वात् । पुनः कथंभूतंचंद्रवियमपि शैत्यादि गुण-शीतलं । अमृतात् ज्ञानामृतात् उच्छिनो नाशो येन तत् प्रकर्षण डेदितमरणं वचनजन्यज्ञानेन जन्ममरणा२. भावात् , चन्द्रबिम्बमपि मुघया मरणं वारयति ॥१८॥ वाड्नीरदैः प्रशमिताः सदशेषजीवाः, प्रक्षालितातिमलराशिभिरेव सन्ति । नाथ ? प्रफुल्लवृषकल्पनगैस्तु ते तत्, कार्य कियजलधरैर्जलभारनम्रः ॥ १९ ॥ वाङ्नीरदरिति । हे नाथ ! स्वामिन् ! ते तव वाचो वचनान्येव नीरं जलं ददतीति नीरदास्तै र्वचनमेधैरेव सन्तो भव्याश्च ते अशेषाः समग्राश्च ते जीवाः जन्तवश्च ते प्रकर्षण शमिताः शान्ति प्रापिताः सन्ति, वारिदा अपि सत्समग्रजीवान् शान्तिदा भवन्ति । कर्य भूत नीरदैः ? आर्तयः पीडाथ मलानां पापानां राशयः समुहाच प्रक्षालिता धौता आर्तिमलराशयो यैस्ते, तैर्मेघा अपि धौतग्रीष्मपीडा For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy