________________
Shri Mahavir Jain Aradhana Kendra
DUNNING
www.kobatirth.org.
या चकवर्तीपदवी सा च सा तु त्वया मुक्ता त्यक्ता खलु निश्चितं, तदनन्तरं त्वं इक्ष्वाकवश्च ते भूपतयश्च तेषु इक्ष्वाकुकुलरासु तीर्थकरो भूः । हे नाथ! नायकात एव तर्थकर त्वादेव स्वमपरो दीपोऽसि । कथं भूतो दीपो ? जगति त्रिलोके प्रकाशो यस्य से जगत्प्रकाशः यथा दीपस्तमो विनाशकत्वाद्दीपयतीति दीपस्तद्वत् त्वमपि जगदांध्य विनाशकत्वाद्दीपोऽसीति भावार्थः ॥ १६ ॥
क्षित्यां पदे र्हततमः स्मरणेन शश्वत् सहृत्पयोजमवबोधमुपैत्यरं ते ।
गोपाशनाशकरदर्शन एष चात्र, सूर्यातिशायि महिमासि मुनीन्द्र ! लोके ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सित्यामिति । यथा सूर्यकिरणैस्तमो विनश्यति, पयोजं च विकसति तत् ते तव क्षित्यां भूमौ पदैः पादन्यासैः हतं च विनष्टं तत्सम मोहः ते क्षितौ पदन्यासै जगदांध्यं विनष्टं ते शश्वत्सततं स्मरणेन सतां सज्जनानां हृदेव हृदयमेव पयसि जले जातं पयोजं कमलं अरं शीघ्रं तदवबोधं जाग्रति मुपैति प्राप्नोति । इदं तु तव सूर्यसादृयं परंतु तत्र सूर्यातिशायी प्रभावः कथमिति चेनित्यं हे मुनीनामिन्द्र ! अत्र च लोके जगति गावः मनोप्रभृतींद्रियाणि ता एव पाशः भवबन्धनरज्जुः “न एव मनुष्याणां कारणं बंधमोक्षयोरिति वचनात् ", तस्य नाशकरं मनोमभृतीनां संसारात् निवृत्तिकरं दर्शनं प्रत्यक्षं यस्य स एषः । मानवं सूर्यादविशायी भानुमतिक्रमितः महिमा प्रभावो यस्य स एतादृशस्त्वमसि ॥ १८ ॥
आस्यार्णवादिह नदी धृतिपूतवर्मा, सङ्ख्येय सा गुणरत्नचयाद्वचस्ते । उच्छिन्ननाशममृताच्छिशिरं प्रभावै, विद्योतयज्जगदपू (शशाङ्कबिम्बम् ॥ १८ ॥
For Private And Personal Use Only