________________
Shri Mahavir Jain Aradhana Kendra
आचाररत्न
॥ ४९ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| धिकारे जेप्रोष्ठपदानामित्युक्तेः । अंत्यमपभरणी शब्दश्रुतौतथोक्तेः । श्रवणशतभिषक अश्वयुक्षुवाआदिवृद्धिः । अपभरणः आपभरणः श्रवणः | श्रावणः शतभिषक् शातभिषजः अश्वयुक् आश्वयुजः । भरणीशब्देपिवा । नक्षत्रेभ्योबहुलम् वत्सशालेतिचवालुगुक्तेः । शेषेषुन वृद्धिर्नेत्यर्थः । कृत्तिकः तिष्यः आश्लेषः फल्गुनः हस्तः विशाखः अनूराधः अषाढः श्रविष्ठः । श्रविष्ठेत्यादिनानित्यंलुगुक्तेः । आवरार्द्रामूलयोरंत्यः स्वरः कपरः । आर्द्रकः मूलकः पूर्वाह्नापराह्णेत्यादिनावुन् । स्वाप्वोः खातीपुनर्वस्वोरंत्यःस्वरोदीर्घःसविसर्गश्च । स्वातिः पुनर्वसुः । एषांनाम्नांसंध्याभिवा दने प्रथमयानिर्देशइति सुदर्शनाचार्यः । अभिजित् अभिजितः कृत्तिकः कार्तिक इतितुयुक्तम् । धनिष्ठेत्यत्रापिवादिवृद्धिः श्राविष्ठीयःआ घाढीयइत्यपिबहुलोक्तेः । तत्तन्नक्षत्रचरणाक्षरघटितनामपठंतिशिष्टाः । नागदेवाह्निके-भोःशब्द कीर्तयेदंतेस्वस्य नाम्नोभिवादने । आयुष्मा |न्भवसौम्येतिवाच्योविप्रोऽभिवादने । अकारश्चास्यनाम्नोंऽतेवाच्यः पूर्वोत्तरः प्लुतः । तदुत्तरकृत्यमाहवृद्धपराशरः — यदक्षरपद भ्रष्टंमात्राहीनं चयद्भवेत् । तत्सर्वेक्षम्यतांदेविकाश्यपप्रियवादिनि । पुष्पसारसुधानिधौ – प्रातः संध्यावसानेतुनित्यंसूर्यैसमर्चयेत् । संध्याकालातिक्रमे प्रायश्चित्तं कर्मप्रदीपे - प्रातः संध्यांसनक्षत्रांनोपास्तेयः प्रमादतः । गायत्र्यष्टशतंतस्यप्रायश्चित्तंविशुद्धये । प्रातःकालांतरोपलक्षणमिति पृथ्वी चंद्रः । दक्षः — संध्यामकुर्वतः काले उदयेस्तमयेपिवा । गायत्र्यष्टशतंजाप्यंप्रायश्चित्तंभवेत्तदा । चतुरर्घ्यंतुगायत्र्यादद्याद्याहृतिसंयुतम् । का लातीत विशुद्ध्यर्थततः संध्यांसमाचरेत् । स्कांदे – उदयास्तमयादूर्ध्वयावत्स्याद्धटिकात्रयम् । तावत्संध्यामुपासीतप्रायश्चित्तमतः परम् । सं |ध्याकल्पेस्मृत्यंतरे- प्राणायामत्रयंप्रातर्द्विगुणंसंगवेस्मृतम् । मध्याह्नेत्रिगुणंप्रोक्तमपराह्णेतुषगुणम् । सायाह्वेद्वादशगुणं सूर्य हत्यांततोत्रजे त् । प्रातरादिष्वकरणइत्यर्थः । शातातपः - निश्यर्धयामेवातीते अर्धयामेपिवासरे । अतिकालमतिक्रांते संध्यालोपंनकारयेत् । संध्याकाले
१ शब्दश्रुतौ लगधज्योतिषे अभिः प्रजापतिरित्यारभ्य अश्विनौयमएवचेतिक्रमेणात्यमपभरणी ।
For Private And Personal
अभिवाद
॥ ४९ ॥