________________
Shri Mahasain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
Hoeroeleeleelcerseeeeeeeeeeeee
बहुचपरिशिष्टे-सदर्भपाणिनादायोत्तानंशिरसिमार्जयेत्। छंदोगपरिशिष्टे-शिरसोमार्जनंकुर्यात्कुशैःसोदकबिंदुभिः । ऋगतेमार्जनं कुर्यात्पादांतेवासमाहितः । प्रणवोभूर्भुवःस्वद्वौंगायत्रीचतृतीयकम् । अब्दैवतंतृचंचैवचतुर्थमितिमार्जनम् । योगीश्वरनारायणी-तृच स्यांतेथवाकुर्यादृषीणांमतमीदृशम् । एवंचत्रयःपक्षाः-ऋगतेमार्जनमित्येकः । नवभिःपादैःप्रणवोपेतैर्नवमार्जनानीतिद्वितीयः । तृचांतेमा जनमितितृतीयः । व्यासः-यस्थक्षयायेतिजलंसकुशंप्रक्षिपेदधः । हारीतः-मार्जनंचकुशाभावेदेवतीर्थेन यद्वाकुशसहितेनदेवतीर्थेन । यत्तुस्मृत्यर्थसारे-पच्छोर्धर्चशऋक्शश्चमार्जनेतन्मयेतृचे। ब्रह्महस्तच्युतंतोयंस्वयंशिरसिधारयेदिति तन्मंत्रस्नानपरम् । मंत्रस्नानोपक्रमात् । प्रकारांतरमुक्तं काशीखंडे—आपोहिष्ठेतितिमृभिर्मार्जनंतुततश्चरेत् । भूमौशिरसिचाकाशेआकाशेभुविमस्तके । मस्तकेचतथाकाशेभूमौ चनवधाक्षिपेत् । भूमिशब्देनचरणावाकाशंहृदयंस्मृतम् ॥ ॥ आपोहिष्ठेत्यस्यऋष्याद्याहयोगयाज्ञवल्क्यः -सिंधुद्वीपोभवेदार्षगायत्रंछं दएवच। आपश्चदैवतंप्रोक्तंविनियोगश्चमार्जने । भृगुः-आपोहिष्ठानवस्वृक्षुसिंधुद्वीपऋषिःस्मृतः । अब्दैवत्यास्तुसप्त!गायत्र्योद्वेत्वनुष्टुभौ । मैत्रायणीयपरिशिष्टे प्रातःसूर्यश्चमेत्युक्त्वासायमग्निश्चमेतिच। आपःपुनंतुमध्याहेकुर्यादाचमनंततः । प्राणायामोत्तरंसूर्यश्चमेत्या चम्यमार्जयेदितिक्रमःकात्यायनादीनाम् । अन्येषांप्राणायामोत्तरमाचम्यमार्जयित्वासूर्यश्चेतिसकृदाचमनद्वयमितिपृथ्वीचंद्रदेवयाज्ञि कौ। सात्वामंत्रवदाचम्यपुनराचमनंचरेदितिटोडरानंदेनारसिंहात्सकृदाचमनमेव । पितामहः-सूर्यश्चेत्यनुवाकस्यछंदोगायत्रमु च्यते । सवितादेवतातस्यऋषिरविरितिस्मृतः । चंद्रोदयेसंग्रहे-आपःपुनंतुमंत्रस्यऋषिःपूतइतिस्मृतः । छंदोनुष्टुब्भवेद्वापिपृथिवीतस्यदे
O7O020200000000000000000
१ मार्जनेचत्वार पक्षाः-आदीप्रणवेनसमस्तव्याहृतिभिःगायत्र्यामार्जनंकृत्वासमस्ततृचेनैकमार्जनंकुर्यादित्येकः । प्रणवोपेतैर्नवभिःपादैनवमार्जनानीतिद्वितीयः । ऋगंतेमार्जनमितितृतीयः । तृचांतेमार्जनमितिचतुर्थइल्यप्यन्यत्र ।
For Private And Personal