________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
आचाररत्नं
संध्यानि.
दिपदं गावोवाएतत्सत्रमासतेत्यादिवत्स्तुत्यर्थनविप्रादीन्प्रतिविध्यर्थमितिस्मृतिरत्नावली। तन्न । विधिश्रुतेः । तत्रतदभावात्तथेति । एतेषां वाक्यानांपतितब्राह्मणविषयत्वोक्तिरज्ञधीदंध्रणायैव । अत्रयच्चशून्यललाटेनेतिमालेतिलकाभावेऽल्पफलश्रुतेरूज़पुंछंत्रिपुंड्रेतिलकमित्येकवचनात्तदविवक्षायांमानाभावाचललाटएकपुंडूनित्यं द्वादशपुंड्राणितुकाम्यानीतिकेचित् । तन्न। कामयोगाभावात् । नचावविश्वजिन्यायः । स्वर्ग कल्पनानुपपत्तेःफलान्तरेविनिगमकाभावात् । अतएकंपुंड्रमदीक्षितपरं, द्वादशपुंड्राणितुमंत्रसाध्यत्वाद्दीक्षितपराणीतियुक्तंप्रतीमः। द्वादशपुंड्रा |णिवैष्णवपराणीत्याचारचंद्रोदयः । इतिश्रीमन्नारायणभट्टलक्ष्मणभट्टकृतावाचाररत्नेतिलकप्रकरणम् ॥ ॥ | अथसंध्यानिर्णयः। स्कांदे-उदयात्प्राक्तनीसंध्याघटिकात्रयमुच्यते। सायंसंध्यात्रिघटिकाअस्तादुपरिभाखतः। दक्षः-रात्र्यंतया | मनायौद्वेसंध्यादिःकालइष्यते । दर्शनादविरेखायास्तदस्तोमुनिभिःस्मृतः । सुधानिधौ–उत्तमातारकोपेतामध्यमालुप्ततारका । अधमा सूर्यसहिताप्रातःसंध्यात्रिधामता । उत्तमासूर्यसहितामध्यमालुप्तभास्करा । कनिष्ठातारकोपेतासायसंध्यात्रिधामता । संवतः-प्रातःसंध्यां सनक्षत्रामुपासीतयथाविधि । सादित्यांपश्चिमांसंध्यामर्धास्तमितभास्कराम् । संध्यायामुपस्थानमेवप्रधानं मार्जनादित्वंगम् । तेतथैवमहाराज दंशितारणमूर्धनि । संध्यागतंसहस्रांशुमादित्यमुपतस्थिरे । इतिभारतादितिचंद्रिका । अर्घ्यदानस्यश्रीतत्वादाशौचेतदेवानुष्ठेयमितिचंद्रि कोक्तेर्गायत्रीजपोपस्थानयोराशौचेपाक्षिकत्वस्यवक्ष्यमाणत्वात् । उभयोःसंध्ययोःकालेरजसावार्घ्यमुत्क्षिपेदितिवाक्याचार्घ्यदानप्रधानमिति वयम् । भदिनकरस्तुसंध्यामुपासीतेतिमन्वादिस्मृतावुपपूर्वस्यासतेरुपस्थानमेववाच्यम् । नोपतिष्ठंतियेसंध्यांस्वस्थावस्थासुवैद्विजाइत्यत्रि स्मृतरुपस्थानमेवप्रधानमित्याह । उपपूर्वस्यासतेया॑नंवाच्यमितिमाधव कृष्णभट्टश्च। स्मृतिरत्नावल्यांशंख:-प्रातःसंध्यांसनक्षत्रां १ तदंतोमुनिभिरिति पाठः ।
॥३७॥
For Private And Personal