________________
Shri Mahavir in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagar
Gyanmandir
केचित् । भेदइत्यन्ये । उत्तरीयार्थेयज्ञोपवीतंवेत्युक्तम् । परिहितवस्त्रस्यचोर्ध्वभागमुत्तरीयंकुर्यात् । एकंचेत्तस्योत्तरवर्गेणप्रच्छादयीतेतिपार स्करोक्तेः । उत्तरीयंचपुरोदेशावस्थितदर्शनधारयेत् । प्रागग्रंचोत्तरीयंतुकर्मकालेनधारयेदितिपृथ्वीचंद्रोक्तेः। उत्तरीयस्थानीयंतृतीयो पवीतंजीवत्पितृकोनधारयेत् । उत्तरीयंयोगपट्टतर्जन्यांरजतंतथा । नजीवत्पितृकैर्धार्यज्येष्ठोवाविद्यतेयदीतिचंद्रोदयेसंग्रहात् । उत्तरीयं चनोपरिवासोमात्रं किंतुसग्रंथिपरिमंडलमित्यादिजातूकोक्तं । उक्तपरिवासस्तुतस्यापिभवत्येव । –एकवस्त्रोन जीयान्नकुर्याद्देवतार्च नम् । नचायेविजान्नान्यत्कुर्यादेवंविधोनरइतिगोभिलेननिषेधात् । नन्वेकवस्त्रइत्यस्यसामान्यरूपत्वाजीवपितृकस्यसर्वोत्तरीयबाधइति चेत् । न । उत्तरीयशब्दस्सयौगिकत्वेपिजातूकपर्योक्तोत्तरीयेरूढेरितिपितृचरणाः। वर्धमानपरिभाषायांशातातपः-सव्यादं सात्परिभ्रष्टंकटिदेशधृतांबरम् । एकवस्त्रंविजानीयादैवेपित्र्येचकर्मणि । बौधायनः-अकच्छःपुच्छकच्छोवाविकच्छ कटिवेष्टितः । यावदास्ते द्विजस्तावच्छूद्रएवनसंशयः । पुच्छकच्छापुच्छाकारकच्छः। सचारद्वयस्समेलनेनैकस्यैवाग्रस्यकच्छत्वेनभवतीतिद्वयमपिनिषिद्धम् । अत्रद्विज स्योद्देश्यत्वावच्छेदकत्वेसर्वस्यापितत्त्वापत्तेः । अकच्छत्वादिविशिष्टस्यतत्त्वेवैपरीत्येवागारवैम् । अतोऽकच्छत्वादेवोद्देश्यत्वात्स्त्रीशूद्रादेरपिक च्छआवश्यकः । नचद्विजपदश्रुतेःशूद्रस्यशूद्रतुल्यत्वानुपपत्तेःकच्छइतियुक्तम् । द्विजत्वस्याविवक्षितत्वात् । तद्ब्रहणंतुकैमुतिकन्यायार्थम् । अत | एवशूद्रपदं अकच्छस्यनग्नत्वोक्तिश्च । श्राद्धहेमाद्रौ-ननःस्यान्मलवद्वासानमःकौशेयकेवलः । नग्नोद्विगुणवस्त्रःस्यान्ननोदग्धपटस्तथा । नग्नश्चस्यूतवासाःस्यान्नग्नःकौपीनकेवलः । नग्नःकाषायवस्वःस्यान्नग्नश्वार्धपटावृतः । विकच्छोऽनुत्तरीयश्चद्विकच्छोऽवस्त्रएवच । अधौतवस्त्रो मलवद्वस्त्रःरजकादिधौतवस्त्रोवा । एकस्यपटस्थाप्रावृण्वानोऽर्धपटावृतः खंडपटवसानोवा । परिहितवस्त्रोपरितदुत्तरार्धेनवस्त्रांतरेणवाकटिबंधनं १ उपवीतंवायुक्तमितिपाठः २ वासस्यापिभवत्येवेतिपाठः । ३ विकच्छोविपरीतकच्छः ।
For Private And Personal