________________
Shri Mahestart Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
Gyanmandir
आचाररत्न
॥३०॥
क्षणादिकृत्वा द्विराचम्यसंयतप्राणःकर्मसंकल्प्य गोमयंवीक्षितमादाय सव्येपाणौकृत्वा व्याहृतिभिस्त्रिधाविभज्य दक्षिणभागंप्रणवेनदिक्षुविक्षिप. खानं. प्योत्तरंतीर्थेक्षिप्त्वा मध्यममानस्तोकइत्यूचाभिमंत्र्य गंधद्वारामित्युचामूर्धादिसौगमालिप्यप्रांजलिर्वरुणमवतेहेळइतिद्वाभ्यां प्रसंम्राजेबृहदचेति सूक्तेन हिरण्यश्रृंगंवरुणप्रपद्येतीथैमेदेहियाचतः । यन्मयाभुक्तमसाधूनांपापेभ्यश्चप्रतिग्रहः । यन्मेमनसावाचाकर्मणावादुष्कृतंकृतम् । तन्नइंद्रो वरुणोबृहस्पतिःसविताचपुनंतुपुनःपुनरितिद्वाभ्यांचप्रार्छ । याःप्रवतइतितीर्थमभिमृश्यावगाह्यस्नातोद्विराचम्य मार्जयेदंबयोयंत्यध्वभिरित्यष्टाभि रापोहिष्ठेतिनवभिरथतीर्थमंगुष्ठेनेसमेगंगइतित्रिःप्रदक्षिणमालोड्यप्रकाशपृष्ठमनोऽघमर्षणंत्रिरावय॑निमज्योन्मज्यादित्यमालोक्य द्वादशकृत्वआ प्लुत्यशंखमुद्रयायोनिमुद्रयोदकमादाय मूर्ध्निमुखेबाहोरुरसिचात्मानंगायत्र्याभिषिच्य त्वंनोअग्नेवरुणस्येतिद्वाभ्यां तरत्समंदीधावतीतिसूक्तेन पु निःसायान्मूर्ध्निचाभिषिंचेत्तद्विष्णोरक्षाणोअग्नेयत्किचेदमित्येताजपेत्।साक्षताभिरद्भिःप्राअखउपवीतीदेवतीर्थेनव्याहृतिभिर्व्यस्तसमस्ताभिब्रह्मादि | देवान्सकृत्सकृतर्पयित्वोद खोनिवीतीसयवाभिरद्भिःप्राजापत्येनतीर्थेनऋषीन्व्याहृतिभिर्द्विस्तिर्पयित्वा दक्षिणामुखःप्राचीनावीतीपितृतीर्थे नसतिलाभिरद्भिर्व्याहृतिभिर्भूरित्यादित्रित्रिस्तर्पयेदथतीरमेत्यदक्षिणामुखःप्राचीनावीतीयेकेचास्मदितिवस्त्रंनिष्पीड्योपवीत्यपउपस्पृश्य परिधा नीयमभ्युक्ष्यपरिधाय द्वितीयंप्रोक्षितंप्रावृत्याचामेदथसंध्यामुपासीतेति ॥ ॥ शंखमुद्रालक्षणमागमे-वामांगुष्ठंतुसंगृह्यदक्षिणेनतुमु [ष्टिना । कृत्वोत्तानंततोमुष्टिमंगुष्ठंतुप्रसारयेत् । वामांगुल्यस्तथाश्लिष्टाःसंयुक्ताःसुप्रसारिताः । दक्षिणांगुष्ठसंस्पृष्टाःशंखमुद्रेयमीरिता । यो |निमुद्रापितत्रैव-मिथःकनिष्ठिकेबध्वातर्जनीभ्यामनामिके । अनामिकोर्ध्वसंश्लिष्टेदीर्घमध्यमयोरधः । अंगुष्ठानद्वयंन्यस्येद्योनिमुद्रेयमी |रिता । अयंप्रातःस्नानविधिहचानाम् । कातीयानांतुमध्याह्नस्नानविधिरेव ॥ ॥ प्रातःस्नानेयोगयाज्ञवल्क्यः -यएषविस्तरेणोक्तः खानस्यविधिरुत्तमः । असामर्थ्यान्नकुर्याचेत्तत्रायविधिरुच्यते । स्नानमंतर्जलेचैवमार्जनाचमनेतथा । जलाभिमंत्रणंचैवतीर्थस्यपरिकल्पनम् ।।
Secresereeroineeroera
For Private And Personal