________________
Shri Mahayein Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagari yanmandir
जलत्वेनतत्रस्नानाभावात्परखोपयोगे चौर्यापत्तेश्चेतिहरिहरादयः । अतः पिंडत्रयोद्धारः सेतुपरः । पंचपिंडोद्धारस्तदन्यपरः । सप्तादिपिंडोद्धार स्तर्पणाद्यर्थमिति पृथ्वी चंद्रः । यथासामर्थ्यव्यवस्थेतिचंद्रिका । सर्वमेतदनुत्सृष्टविषयम् । अनुत्सृष्टेषुनस्त्रायात्तथैवासंस्कृतेषुचेतिमरी च्युक्तेः । पराशरः- नतीर्थेख्याकुलेस्नायान्ना सज्जनसमावृते । दर्भहीनोऽन्यचित्तश्चनननोनशिरोविना । बौधायनः - शाल्म लीर्तितिणीचैवकरंजश्वहरीतकी । कोविदारकबिल्वार्काबदरीच बिभीतकः । शेलुश्चखादक श्चैषांछायास्त्रानंविवर्जयेत् । माधवीयेआप स्तंब : -- अंत्यजैः खानिताः कूपास्तडागोवाप्यएवच । एषुम्नात्वाचपीत्वाचप्राजापत्येनशुद्ध्यति । खानितग्रहणादखानि तेनदोषः । तत्रै वविष्णुः - जलाशयेष्वथाल्पेषुस्थावरेषुर्महीतले । कूपवत्कथिताशुद्धिर्महत्सुनतुदूषणम् । चंद्रिकायांबौधायनः - अधोवर्णोदकेना नंवर्ज्जुनद्यांद्विजातिभिः । तस्यांरजकतीर्थतुदशहस्तेनवर्जयेत् । तत्रैवपुराणे - स्रवन्नदीषुनस्त्रायात्प्रविश्यांतः स्थितोद्विजः । मरीचिः - नद्यायच्च परिभ्रष्टंनद्यायच्चविवर्जितम् । गतप्रत्यागतंयच्चतत्तोयं परिवर्जयेत् । स्नानादावितिशेषः । परिभ्रष्टं विच्छिन्नम् । विवर्जितं नदीतोनिःसृ तम् । गतप्रत्यागतमविच्छिन्नमावर्ततइतिचंद्रिका । व्याघ्रपादः – सिंहकर्कटयोर्मध्येसर्वानधोरजस्वलाः । तासुस्नानं न कुर्वीतवर्जयित्वास मुद्रगाः । स्वानंतर्पणादेरुपलक्षणम् । नस्नानादीनि कर्माणितासुकुर्वीत मानवइत्यत्रिस्मृतेः तीरवासिनांननिषेधः । नतुतत्तीरवासिनामिति त्रिस्थली सेतौनिगमात् । समुद्रगानांतु हेमाद्रीदेवीपुराणे – समुद्रगामिनीनांतुषारजइष्यते ॥ ॥ नदीराहकात्यायनःधनुःसहस्राण्यष्टौ तुगतिर्यासांनविद्यते । नतानदीशब्दवहागर्तास्ते परिकीर्तिताः । धनुश्चतुर्हस्तमिति वाचस्पतिः । भविष्योत्तरे - आदौ कर्कटकेदेविमद्दानद्योरजस्वलाः । त्रिदिनंतुचतुर्थेह्निशुद्धाः स्युर्जाह्नवीयथा ॥ ॥ महानद्यश्वोक्ताब्राह्मे - गोदावरी भीमरथी तुंगभद्रा
१ महीपतेइतिपाठः ।
For Private And Personal