________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagareyri Gyanmander
आचाररत्नं
॥२१॥
णैःकाष्ठैर्जलाधारैरन्यांतरितमृन्मयैः । वामेनोद्धृत्यवाचामेदन्यदातुरसंभवेइति । तन्मृन्मयमात्रपरम् । तस्यैवसंनिहितत्वात् । तत्राप्यन्यदातुर
Hदंतधाव. संभवेवामेनसंदंशादिनोद्धृतैर्मृन्मयैरित्यर्थः । अतएवाग्रेस्मृत्यर्थसारे-तत्रमृन्मयपात्रस्थंजलंनैवोपहन्यतइत्युक्तमितिकेचित् । अन्येतुवामे नपात्रमुद्धृत्यनपिबेदक्षिणेनत्वित्युपक्रम्य सौवर्णरौप्यपात्रैश्चेत्याधुक्तेर्यदिस्वहस्तेनाचामेत्तदैतैरेवेतिपरिगणनबलान्नियमेननान्यरित्यात्पित्तलकां स्यादिभिवामोद्धृतैर्नाचामेदित्याहुः । प्रयोगपारिजातसंग्रहे-करकालाबुपात्रेणताम्रचर्मपुटेनच । गृहीत्वास्वयमाचामेद्धूमिलग्नेनना l न्यथा । अत्रभूमिलग्नत्वेमूलंचिंत्यम् । वामेनोद्धृत्येतिस्मृत्यर्थसारविरोधात् । माधवीयेस्मृत्यंतरे-करपत्रेषुयत्तोयंयत्तोयंताम्रभाजने । सौवर्णराजतेचैवनैवाशुद्धतुतत्स्मृतम् । अपरार्केस्मृत्यंतरे-ताम्राश्मनालिकेराब्जवेणुकालाबुचर्मभिः । खहस्तेनापिचाचामेत्सर्वदाशुचि | रेवसः । नकेवलमन्यदत्तेनेतितत्रैव ॥ इतिश्रीमन्नारायण लक्ष्मणभट्टकृतावाचाररत्नेआचमनम् ॥ ___ अथदंतधावनम् ॥ अत्रिः-मुखेपर्युषितेनित्यंभवत्यप्रयतोनरः। अथाकाष्ठंशुष्कंवाभक्षयेदंतधावनम् । तस्यायंतयोराचामेत् ।।
आग्नेये-शौचंकृत्वामृदाचम्यभक्षयेदंतधावनमित्युक्तेः । प्रक्षाल्यभक्त्वातुशुचौदेशेत्यक्त्वातदाचमेदितिगारुडाच । आचारादर्श विष्णुः-प्रातर्भुक्त्वाचयतवाग्भक्षयेदंतधावनम् । भुक्त्वेतियतिपरमितिहलायुधः। विष्णुः-कंटकिक्षीरिवृक्षोत्थंद्वादशांगुलमव्रणम् । कनिष्ठांगुलिवत्स्थूलंपर्वार्धकृतकूर्चकम् । दंतधावनमुद्दिष्टंजिबोल्लेखनिकातथा । द्वादशांगुलकंविप्रेकाष्ठमाहुर्मनीषिणः । क्षत्रविट्शूद्रजातीनां नवषट्चतुरंगुलम् । स्मृत्यर्थसारेतु-तिक्तकषायकटुसुगंधिकंटकिक्षीर्यव्रणमृजुकीटाघदूषितंद्वादशांगुलंवित्रे क्षत्रादिष्वंगुलिहासइत्युक्तम् । शंख:-कुमाराणांचनारीणांकर्तव्यंचतुरंगुलम् । अथतत्काष्ठानि मदीयाःश्लोकाः-आम्रानातकसर्जवेणुबृहतीश्रीपर्णिपुन्नागकान् चंपावैकदरंशिरीषखदिरापामार्गनिंबार्जुनान् । नारिंगबदरीप्रियंगुकुटजान्धात्रीतमालंतथाकंकोलंत्वरिमर्दलोध्रमधुकानराजादनंपर्णकम् । जात्याट
For Private And Personal