________________
Shri Mabadin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
शुष्कवस्त्रेणस्थलेचैवावाससा । तर्पणाचमनंजप्यंमार्जनादिकमाचरेत् । पैठीनसिः-अंतरेकंबहिरेकंकृत्वापादमाचमेदिति । व्यासः-15 शिरःप्रावृत्यकंठंचमुक्तकच्छशिखोपिवा । अकृत्वापादयोःशौचमाचांतोप्यशुचिर्भवेत् । गौतमः-नमुख्याविग्रुषउच्छिष्ट्रकुवैतिनचेदंगेनिपतं तीति । अंगस्पर्शेआपस्तंबः-यआस्यादिदवःपतंतउपलभ्यतेतेष्वाचामेत् । गौतमः-मंत्रब्राह्मणमुच्चारयतोबिंदवःशरीरउपलभ्यतेनते ध्वाचमनमिति । मनुः-स्पृशंतिबिंदवः पादौयस्याचामयतःपरान् । तेपार्थिवैःसमाज्ञेयानतैरप्रयतोभवेत् । अत्रपादग्रहणाजंघादिस्पर्शेदोष इतिमेधातिथिः । तन्न । प्रयांत्याचमतोयाश्चशरीरे विग्रुषोनृणाम् । उच्छिष्टदोषोनास्त्यत्रभूमितुल्यास्तुतेस्मृताइतिमाधवीयेयमोक्तौ | शरीरग्रहणात् । अतःपादावितिप्रायिकम् । तेनांगांतरस्पर्शेपिनदोषइतिसर्वज्ञनारायणः । माधवीयेप्येवं । आपस्तंबःनश्मश्रुभिरुच्छिष्टोभवतियावन्नहस्तेनोपस्पृशतीति । मुखगतैरित्यर्थः । याज्ञवल्क्यः -मुखजाविग्रुपोमेध्यास्तथाचमनविंदवः इति ।
शंखः-दंतवदंतलग्नेषुरसवर्जमन्यत्रजिह्वाभिमर्शनादिति । गौतमस्तुप्राच्युतेरेकेइत्याह । च्युतेतुशंखः च्युतेष्वास्राववद्विद्यान्निगिरनेव 1 तच्छुचिः । मुखोदकमानावः । शातातपः-दंतलग्नेमूलफलेभुक्तस्नेहेतथैवच । तांबूलेचेक्षुदंडेचनोच्छिष्टोभवतिद्विजः । स्मृत्यंतरे
अलाबुताम्रपात्रस्थंकरकस्थंचयत्पयः । आचम्यस्वयमादायशुद्धोभवतिनान्यथा । स्वयंगृहीत्वाचाचामेन्नपरःप्रयच्छेदित्यर्थः । अलब्वादिपात्रं यतिपरम् । यतिपात्राणिमृद्वेणुदावलाबुमयानिचेतियाज्ञवल्क्योक्तेः । अतैजसानिपात्राणितस्यस्युनिणानिचेतिमनूक्तेश्च । अलाबुदारु जवापिवैणवंमृन्मयंतथा । एतानियतिपात्राणिगृहस्थोनसमाचरेदितिपंचायतनसारेव्यासोक्तेश्च । तत्रैवसंवतः-सौवर्णराजतंतानं मुख्यपानप्रकीर्तितम् । तदभावस्मृतंपात्रंस्रवतेयन्नधारितम् । कृष्णभट्टीयेमरीचिः--कांस्येनायसपात्रेणत्रपुसीसकपित्तलैः । आचांतःश तकृत्वोपिनकदाचनशुद्ध्यति । यत्तुस्मृत्यर्थसारे—सौवर्णरौप्यपात्रैश्चवेणुबिल्वाश्मचर्मभिः । अलाबुदारुपात्रश्चनारिकेलैःकपित्थकैः । तृ
For Private And Personal