________________
Shri Mahavale Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| तस्यांस्त्रानंनकुर्वीत काम्यमाचमनंतथा । तत्रैवषट्त्रिंशन्मते - मूत्रोच्चारेमहारात्रौ कुर्यान्नाचमनंतुयः । प्रायश्चित्तीयतेविप्रः प्राजापत्यार्धम | र्हति ॥ ॥ महानिशाद्वेधा । तत्राद्यामाहमार्कडेयः – महानिशाद्वेघटिकेरात्रौमध्यमयामयोः । द्वितीयस्यांत्या तृतीयस्याद्येत्यर्थः । द्वि तीयातुविश्वामित्रोक्ता । द्रव्यतः स्मृत्यर्थसारे - अस्निग्धऔषधेजग्धे स्निग्धेबुद्धेसलेपने । नाचामेद्भोजनेवृत्तेशुद्ध्यर्थक्रमुकादिषु । अन्येषुचा मभक्ष्येषुसंसारेषुसुगंधिषु । तांबूलेकमुके होमे भुक्तस्नेहानुलेपने । इक्षुदंडेतिलेमूलपत्रपुष्पफलेषुच । तथात्वक्तृणकाष्ठेषुनाचामेदामभक्षणे । म धुपर्केच सोमेचप्राणाहुतिषुचाप्सुच । आस्यहोमेषुसर्वेषुनोच्छिष्टो भवतिद्विजः । क्रमुकादिष्वित्यत्रादिशब्दात्तांबूलादीनि । पुनरतांबूलमुक योर्ग्रहणादत्रपूर्वाचमननिषेधः । अतएवशुद्ध्यर्थमित्युक्तम् । प्राणाहुतिष्वितितासांमंत्रसाध्यत्वादुच्छिष्टस्य चमंत्रपाठासंभवादाचमनेप्राप्तेतन्नि षेधः । तेनविषयसप्तमीयम् । तेनभोजनेअमृतोपस्तरणमसीत्येतदुत्तरंनाचमनम् । अतएवाप्स्वितिप्राणाहुतिसाहचर्याद मृतापिधानमसीतिपीतां प्परं । अन्यथोच्छिष्टस्य मंत्रपाठासंभवात् । तेनतस्मिन्नप्पाने कर्तव्येनोच्छिष्टत्वमित्युक्तं श्राद्धहेमाद्रौ । नचैवंपुरीषाद्युत्सर्गोत्तरमाचमने कर्त व्येतत्राधिकारसिद्ध्यर्थमाचमनांतरापत्तिः । आरंभणीयान्यायेनोपपत्तेः । यथादर्शपूर्णमासांगारंभणीयातिदेशादारंभणीयायां प्राप्तानवस्थाप्रसं गात्स्वात्मनिस्वातिदेशासंभवाच्चनतथेहापि । नचैवमाचमनेसकृज्जलपानोत्तरमाचमनापत्तिः । पुनर्जलपानस्यगायत्र्यादिमंत्रसाध्यत्वादुच्छिष्टस्य तदसंभवादितियुक्तम् । अनवस्थापत्तेर्दत्तोत्तरत्वात् । हेमाद्रावेवसममव्यवधानेनेत्युक्तेश्च । कृष्ण भट्टीये – अनाचांतः पिबेद्यस्तुपीत्वाना चामयेद्यदि । गायत्र्यष्टशतंजध्वाप्राणायामेनशुद्ध्यति ॥ ॥ आचमनापवादआचारसारे – अपोजग्ध्वौषधं जग्ध्वाकृत्वातांबूल चर्वण म् । सौगंधिकानिसर्वाणिनाचमेतविचक्षणः । अपोजग्ध्वेत्यमृतापिधानमसीतिमंत्रैः । पीत्वायोध्येष्यमाणश्चआचामेत्प्रयतोपिसन्नितिमनूक्तेरिति
|
|
१ समारंभेषुसंधिष्वितिपाठः । २ पीतात्परमितिपाठः ।
For Private And Personal