________________
Shri Meherpain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasheepersuri Gyanmandir
परिमाणाग्रायन । द्वैगुण्यादिसंख्यामात्रेतदुत्तरादापतीनांवाचतुर्गुणम् । दिवायद्विय
@Receo@eo@ceo@a@eceaseeeeeeee
ग्रासाइंदुब्रतेस्मृताः । तथैवाहुतयःसर्वाःशौचार्थेयाश्चमृत्तिकाइति तद्धस्तशौचपरम् । गुदलिंगयोर्मुत्परिमाणांतरोक्तेरित्यूचतुः। यमः| उभयोःसप्तदातव्याःपुनरेकागुदेतथेति पुनर्दानंसर्वपक्षेपुज्ञेयमितिचंद्रिका । हारीतः–दशसव्येषट्पृष्ठेसप्तोभाभ्यांतिसृभिःपादौक्षाल सायेदिति । पृष्ठेसव्यहस्तस्य । तिमभिरितिलेपभूयस्त्वइत्याचारादर्शः एकत्वत्रित्वयोस्तुल्यवद्विकल्पइत्यन्ये । मिताक्षरायांशौनक:
एतच्छौचंगृहस्थानांद्विगुणंब्रह्मचारिणाम् । त्रिगुणस्यादनस्थानांयतीनांस्याच्चतुर्गुणम् । दिवायद्विहितंशौचंतदर्धेनिशिकीर्तितम् । तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि । द्वैगुण्यादिसंख्यामात्रेतदुत्तरंस्मृतिष्वभिधानादितिटोडरानंदः । नेदंयुक्तम् । संख्यार्धासंभवात् । अत्रमध्यामृद परिमाणाग्राह्येतिस्मृतिकौमुदीशूद्राचारशिरोमणिश्च । आतुरेऽर्धमशक्तपरम् । शक्तस्यपूर्णमेव । दिवाशौचस्यनिश्यर्धेपथिपादोवि धीयते । आर्तःकुर्याद्यथाशक्तिस्वस्थाकुर्याद्यथोदितमित्यादिपुराणादितिचंद्रिका । योगीश्वरः-स्त्रीशूद्रादेरशक्तानांबालानांचोपवीतिनाम् । |गंधलेपक्षयकरंशौचकुर्यान्नसंख्यया । वातादिनाशुष्केलेपेगंधनिवृत्तावपिलेपक्षयार्थलेपग्रहः । तन्निवृत्तावपिगंधानुवृत्तौतद्वारणायगंधपदम् । वालस्यपंचमवर्षप्रभृतिमृदाद्यावश्यकम् । बालस्यपंचमाद्वर्षाद्रक्षार्थशौचमाचरेदितिस्मृतेः । आदित्यपुराणे-स्त्रीशूद्रयोरर्धमानप्रोक्तं शौचमनीषिभिः । एतच्छौचंद्विजातीनामर्धेशूद्रेप्रकीर्तितमिति । तद्गृहस्थशूद्रान्यपरम् । तस्य-एतच्छौचंगृहस्थानामित्येवसिद्धेरितिकेचित् । तन्न । गृहस्थेशूद्रेअर्धेनैतच्छौचमित्यस्यबाधात् । अतएव–नयावदुपनीयंतेद्विजाःशूद्रास्तथांगनाः। गंधलेपक्षयकरंशौचमेषांविधीयतइतिपरा शरस्मृतौ । स्त्रीशूद्रपदमकृतोद्वाहपरम् । अनुपनीतसाहचर्यात्पराशरमाधवीये । अतएवार्धसंख्यागृहस्थपरा । वस्तुतस्तुशूद्रगृहस्थप || दयोःसामान्यविशेषाभावस्यतुल्यत्वाच्छूद्रगृहस्थस्यविकल्पइति सोपिव्यवस्थितः । विवाहाभावेद्वादशवर्षोत्तरंषोडशवर्षोत्तरंवामृत्संख्यानिय मोऽन्यथानेतिकौमुदी। एतेन स्त्रिया अर्धसंख्याचशूद्रस्यचनविधवापरा । अन्यथागंधलेपक्षयकरशौचबाधापत्तेरित्याचारचंद्रोदयो
For Private And Personal