________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मस्तकग्रहणंदोषाधिक्यार्थम् । अतः पर्वतवासिनांपर्वतापरिहारेपिमस्त कः परिहार्यइतिचंद्रिका । कात्यायनः — मूत्रपुरीषेष्ठीवनंचातपेनकुर्या दिति । याज्ञवल्क्यः –नप्रत्यभ्यर्क गोसोमसंध्यांबुत्री द्विजन्मनः । विष्णुः – गोमयांगारवल्मीकफालकृष्टेऽबरेतरौ । संसत्वेशाद्वलोद्या | नेनमेतकदाचन । अंबरेऽतरिक्षे । विष्णुः – नोच्चरेदाकाशेइति । आकाशेऽसंवृते । यदाकाशःस्मृतोभीमस्तस्मान्नासंवृतेक्वचित् । कुर्यान्मू त्रं पुरीषंवान भुंजीत पिबेन्नवेतिवायुपुराणात् । अतोट्टालिकादौननिषेधइत्याचारादर्शः । तन्न । अंतरिक्षनिषेधेनैवतन्निषेधात् । चंद्रो | दयेवृद्धमनुः – दशहस्तं परित्यज्यमूत्रं कुर्याञ्जलाशयात् । शतहस्तं पुरीषेतुतीर्थेचैव चतुर्गुणम् । मनुः -- दूरादावसथान्मूत्रंदूरात्पादावने जनम् । उच्छिष्टान्न निषेकंचदूरादेवसमाचरेत् । मदनपारिजाते वृहद्विष्णुः - अंतर्घायतृणैर्भूमिंशिरः प्रावृत्यवाससा । वाचंनियम्ययत्त्रे |नष्ठीवनोच्छ्वासवर्जितः । तृणैरयज्ञियैः । अयज्ञियैरनार्यैः संच्छाद्यकाष्ठतृणैर्महीमितियमोक्तेः ॥ ॥ यज्ञियकाष्ठान्युक्तानिब्राह्मे| शमीपलाशन्यग्रोधप्लक्षवैकंकतोद्भवाः । अश्वत्थोदुंबरौबिल्वश्चंदनः सरलस्तथा । सालश्वदेवदारुश्चखदिरश्चेतियज्ञियाः । काष्ठाद्यंतर्धानंकुर्या नवेतिस्मृत्यर्थसारे । प्रयोगपारिजाते संग्रहे—नसोपानत्पादुकीवाछत्रीवानांतरिक्षगः । हारीतः - प्राणास्येसमावेष्टयेदिति । | याज्ञवल्क्यः – दिवासंध्या सुकर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषेचरात्रौचेद्दक्षिणामुखः । केचित्तुदिवापदेनैवसंध्याप्राप्तौपुनरुक्तिरह | निमनूक्तसुखमुखत्वबाधार्थेत्याहुः । तन्न । संध्यायादिवारात्रिभेदेनपुनरुक्तेरुपपत्तेः । अतएवाखंडमंडलावच्छिन्नः कालोदिवसः । खंडमं | डलावच्छिन्नः कालः संध्या । तद्भिन्नारात्रिरितिशास्त्रेषुचव्यवहारः । अतोरात्रौदक्षिणामुखोऽन्यथोदङ्मुखइतिवाच्येपुनःसंध्याग्रहोऽव्यभिचारा
१ ससत्वंप्राणिप्रचुरम् । २ स्नातकधर्मप्रकरणे आपस्तंबः -नसोपानत्कोमूत्रपुरीषेकुर्यादिति । इदंचस्नातकधर्मप्रकरणात्स्नातकविषयम् । उपानहनिषेधस्तुन्नानदेवया त्राद्युपयुक्तोपानहपरोदृष्टार्थः सोपानत्कः प्रकुर्वीतसूत्रोचारविसर्जन मितिस्मृत्यंतरात् ।
For Private And Personal