________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsageremyanmandir
टिटटseeeeeeeeeee
निर्णयामृते । स्मृत्यर्थसारे-अष्टमीचतुर्दश्योर्नक्तंकार्यमेकभक्तंचेति । अत्रकेचिदुपवासात्पूर्वदिनेदशम्यल्पत्वेदशमीमध्यएवभोजनं कार्यम् । एकादश्यांनभुंजीतेत्येकादश्यांभोजननिषेधात् । निषेधस्तुनिवृत्त्यात्माकालमात्रमपेक्षतइतिन्यायाचेत्याहः । तन्न । दशम्यामेकम क्तस्तुमांसमैथुनवर्जितइतिचंद्रिकायादेवलेनमध्याह्नकालिकैकभक्तव्रतविधानाद्विधिस्पष्टेचनिषेधानवकाशात् द्वादश्यादिवन्माध्याहिकापक र्षकाभावाच्च । नचायनव्रतविधिःकिंतुपुनर्भोजननिषेधमात्रमितिवाच्यम् । निषेधकल्पनेमानाभावात् । हविष्याशनमध्याह्नाद्यप्राप्तिप्रसंगात् । सर्वत्रैकभक्तादौतथाप्रसंगाच्च । नचहविष्यादिकाम्यैकादशीव्रतमात्रांगं संकोचेमानाभावात् । प्रयोगपारिजातेदेवल:-श्राद्धंकृत्वातुयो मोनचभुङ्क्तेकदाचन । देवाहविर्नगृहृतिकव्यानिपितरस्तथा । एकादश्यादौतुसएव-उपवासोयदानित्यःश्राद्धंनैमित्तिकंभवेत् । उपवासंत दाकुर्यादाघ्रायपितृसेवितम् । प्रयोगपारिजातस्त्वेकादशीमात्रपरम् । मातापित्रोःक्षयेप्राप्तेभवेदेकादशीयदा । संभाव्यपितृदेवांश्चआजिघ्र पितृसेवितमितिकात्यायनोक्तेस्तेनशिवराज्यादौभोजनमेवेत्याह । पितृपदंजनकपरमिदं । तेनान्यश्राद्धनावघ्राणम् । हेमाद्रिस्तु-चतुर्द श्यांयदाचैवश्राद्धंनैमित्तिकंतथा । उपवासंतदाकुर्यादाघ्रायपितृसेवितमितिप्रभासखंडाच्छिवरात्रावप्यवघ्राणम् । एवंचयस्मिन्नुपवासेकृतेपुण्यं त्यक्तेमहत्पापंतत्रावघ्राणम् । यत्रद्वयमप्यल्पंतत्रायाचितमेकभक्तंवाकार्यम् । उपवासदिनेश्राद्धकथंचिद्यदिजायते । उपवासेश्वमेधाख्यराजसूयम याचिते । वाजपेयंलभेद्भोक्ताएकभक्तेऽग्निहोत्रजमितिप्रभासखंडादित्याह ॥ | अथभक्ष्याभक्ष्यनिर्णयः । याज्ञवल्क्यः -अदत्तमग्निहीनस्यनान्नमद्यादनापदि । कदर्यबद्धचौराणांक्लीबरंगावतारिणाम् । वैणाभि शस्तवाधुष्यगणिकागणदीक्षिणाम् । अग्निहीनःशूद्रः । शूद्रान्ननिषेधोऽसच्छूद्रपरः । गौभूमिरन्नहोमार्थसच्छूद्रस्यगृहेगृहेइतिब्राह्मादितिटोड रानंदः । तन्न । राजानंतेजआदत्तेशूद्रान्नंब्रह्मवर्चसम् । आयुःसुवर्णकारान्नंयशश्चर्मावकर्तिनः । भुक्त्वायोन्यतमस्यान्नममत्याक्षपणंत्र्यहमिति
For Private And Personal