________________
Shri Ma
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash agarsari Gyanmandir
पद्मपत्रेषुगृही भुक्त्वैदवंचरेदितिपृथ्वीचंद्रः । ताम्रविधिः श्राद्धपरइत्यन्ये । यत्त्ववरार्के - सप्तम्यांनैवकुर्वीतताम्रपात्रेचभोजनमिति तत्पूर्वी क्तनिषेधोपसंहारार्थदोषाधिक्याथैवा । ताम्रवत्पैत्तलेपिनिर्णयः । यत्तु - नायसान्यपिकार्याणिपैत्तलानिनतुक्कचिदितिश्राद्धहेमाद्रीवाराहं तत्प्र करणाच्छ्राद्धपरं । भिन्नदोषोनकांस्येएवकिंतुतत्रदोषाधिक्यम् । नकार्ष्णायसे नमृत्पात्रे नभिन्नावकीर्णेइतिहारीतोक्तेः । शूद्रभाजनभिन्नभा | जनेभुक्त्वोपवासोभिन्नकांस्येत्रिरात्रमितिस्मृत्यर्थसाराच्चभिन्नदोषस्ताम्राद्यन्यपरः । ताम्ररजतसुवर्णशंखमुक्ताश्मस्फटिकानांभिन्नमभिन्नमितिपै ठीनसिस्मृतेः । स्कांदेकार्तिकमाहात्म्ये - पत्रभोजीभवेदूर्जे कांस्यत्याज्यंप्रयत्नतः । तथा —— योत्रतीकांस्यभोजीस्यान्न सत्रतफलं लभेत् । ज्योतिर्निबंधे-भोज्यपात्रसुधासिंधौघटयेद्वासमाहरेत् । तत्रान्नप्राशनप्रोक्तेकाले भोजनमाचरेत् । सुधासिंधौ सोमे । स्मृतिरत्नाव ल्याम्-वल्लीपलाशपत्रेषुस्थलजेपुष्करेतथा । गृहस्थस्तुनचाश्नीयाद्भुक्त्वाचांद्रायणंचरेत् । करेकर्पटकेचैव आयसेताम्रभाजने । वटार्काश्वत्थ पत्रेषुभुक्त्वा चांद्रायणचरेत् । चंद्रिकायांपैठीनसिः वटा कश्वित्थपर्णेषु कुंभीतिंदुकजेषुच । श्रीकामोनैवभुंजीतकोविदारकरंजयोः । आग्नेये वटार्काश्वत्थववलसर्जभल्लातकीस्त्यजेत् । स्कांदेप्रभासखंडे शूद्रंप्रक्रम्य - मध्य पत्रेन भुंजीत ब्रह्मवृक्षस्यभामिनि । प्रचे ताः - मृन्मये पर्णपृष्ठेवा कार्पासेतांतवेतथा । नाभीयान्नपिबेचैव करेणांजलिनापिच । यस्तुनकदलीपत्रमितिहेमाद्रौनिषेधः सश्राद्धपरः नृसिंहांबुधिमहोदधौगोविंदार्णवे च -- करंजपिप्पलवटप्लक्षकुंभ्यर्कतिंदुकाः । एषांपत्रे पुनाश्रीयात्कोविदाराम्रयोरपि । विपर्यस्ते घुपत्रेषुतिर्यक्पत्रेचदारुजे । अजपीब्रह्मपत्रेषुशूद्रस्यूते तदाहृते । कंटकैः सीवितपत्रेतथावेणुदलेनच । अत्रमूलंमृग्यम् । चंद्रिकायां पुराणे - पालाशेषुचपत्रेषुमध्यमेषुविशेषतः । यः करोत्यशनंतस्यप्राजापत्यंदिनेदिने । यदीच्छत्यूर्ध्वगामित्वं परं स्थानंचशाश्वतम् । पत्रपर्णेषु भोक्तव्यं मासमेकंनिरंतरम् । इति ॥
१ घटयेद्रासमाहरेत् । २ पर्णपत्रेषु ।
For Private And Personal