________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
क्तम् । यावन्मात्राशनोवास्याद्धताशीखातकोद्विजः । तस्यान्नस्यचतुर्भागहतकारंविदुर्बुधाः ।हतकारादिदानमनुष्यभोजनेकृतेपिनित्यमितिकेचित् । मनुष्यभोजनाशक्तावित्यन्ये । ब्राले यःपात्रपूरणींभिक्षायतिभ्यःसंप्रयच्छति । विमुक्तःसर्वपापेभ्योनासौदुर्गतिमाप्नुयात् । व्यासःयतिहस्तेजलंदद्याद्वेक्षंदद्यात्पुनर्जलम् । तद्भक्षंमेरुणातुल्यंतज्जलंसागरोपमम् । पाखंडेभ्योपिभिक्षांदद्यादित्युक्तंचंद्रोदयेब्राह्म तेभ्योदेयं गृहादहिरिति । विष्णुः-भिक्षुकाभावेऽन्नंगोभ्योदद्यादग्नौवाक्षिपेदिति । प्रोषितभर्तृकाया:पराशरः-भार्यायोजनवेलायांभिक्षाःसप्ता थपंचवा । दत्वाशेषंसमश्नीयात्सायंसाभृत्यकैःसह ॥ | अथगोग्रासः। सचशिष्टाचारात्पंचयज्ञोत्तरमितिमदनरत्ने । प्रभासखंडे-तृणान्नाद्यपरागावःकर्तव्याभक्तितोऽन्वहम् । अकृत्वाख यमाहारकुर्वन्प्राप्नोतिदुर्गतिम् । आत्माहारप्रमाणेनप्रत्यहंगोषुदीयते । आत्माहारप्रमाणान्नाशक्तौचंद्रोदयेब्रह्मांडे-सौरभेय्यःसर्वहिताः पवित्राःपुण्यराशयः । प्रतिगृह्णतुमेग्रासंगावस्त्रैलोक्यमातरः । दद्यादनेनमंत्रेणगवांग्रासंसदैवहि । सदैवेत्युक्तेरकरणेप्रत्यवायश्रुतेश्चायनित्यइत्या चारादर्शः। प्रभासखंडे मंत्रांतरमुक्तं-सौरभेयीजगत्पूज्यादेवीविष्णुपदेस्थिता । सर्वदेवमयीग्रासमयादत्तंप्रतीक्षतु । अयंकाम्यश्चतृणोदकेनसंयुक्तंयःप्रदद्याद्वाह्निकम् । कपिलाशतदानस्यफलंविद्यान्नसंशयइतिचंद्रोदयेभविष्यात् । इतिश्रीमन्नारायणभट्टात्मजसूरिराम कृष्णभट्टसूनुदिनकरभट्टानुजलक्ष्मणभट्टकृतावाचाररत्नेपंचमहायज्ञप्रकरणम् ॥
अथभोजनविधिः । वसिष्ठः-वारुण्यांभोजनगृहनैर्ऋत्यांसूतिकागृहम् । इति । याज्ञवल्क्यः -बालःसुवासिनीवृद्धगर्भिण्यातुरक न्यकाः। संभोज्यातिथिभृत्यांश्चदंपत्योःशेषभोजनम् । कन्यानूढा । मनुविष्णू-सुवासिनीकुमारांश्चरोगिणोगर्भिणीस्तथा । अतिथिभ्योग्रएवै
१ चतुर्थांशम् । तेभ्योदद्याद्गृहात् ।३ इदंभोजनभृत्यादिवर्गेभुक्तेपश्चादेकांविधेय-दंपत्योःशेषभोजनमिति याज्ञवल्क्योक्तः। आहारनिर्हारविहारयोगाःसदैवसद्भि विजनेविधेयाइतिवचनात् ।
Jeeeeeeeeeeeeeeeeeeeee
१८ आ००
For Private And Personal