________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarguri Gyanmandir
तयाशौचं विधीयते । एतेनयथोक्तमृदलाभे किंचिद्गुणहीनामृदेवग्राह्यानतुतद्वर्णद्रव्यांतरंप्रतिनिधेयम् । युक्तं चैतत् । गुणीभूतशुक्लत्वानुरोधेन प्रधानीभूतमृत्त्वत्यागेमानाभावात् । आश्वलायनः - अंतर्जलेदेवगृहेवल्मीके मूषकस्थले । अन्यशौचावशेषाश्चनग्राह्याः पंचमृत्तिकाः । अ न्यशौचेत्यत्र कर्मधारयोनतुषष्ठीतत्पुरुषः । तत्पुरुषापेक्षयाकर्मधारयस्यलघुत्वात् । तेनैकस्यैवशौचांतरशेषाअपिनिषिद्धाः । सएव मार्गर थ्याश्मशानस्थांपांशुलांमलिनांत्यजेत् । कीटांगारास्थिसहितांना हरेच्छर्करान्विताम् । वापीकूपतडागेषुनाहरेद्वाह्यमृत्तिकाम् | अंतर्जलगताग्राह्या दूरतोमणिबंधनात् । जलांतः स्थितमृन्निषेधउद्धृतोदकशौचविषयः । जलांतः शौचेतुयमः - वापीकूपतडागेषुनाहरेद्वाह्यतोमृदम् । इदंचारण्य विषयम् । स्मृत्यर्थसारे – आरण्यकेषुत्वेवंस्याद्राम्येष्वाहरणंविदुरित्युक्तेः । स्मृतिचिंतामणावप्येवम् । आचारादशैहारीतः मृ द्धात्रींकंठेसमासज्यदक्षिणपार्श्वेकमंडलुमाधायेति । चंद्रिकायांविष्णुः - ब्रह्मसूत्रग्रीवायामासज्योच्चरेदिति । तत्रैवापस्तंब : - कृत्वाम् | ह्युपवीतकमितिमाधवीयेंऽगिराः । कृत्वायज्ञोपवीतंतुपृष्ठतः कंठलंबितम् । विण्मूत्रंतुगृहीकुर्याद्यद्वाकर्णसमाहितम् । पृष्ठेनिधानंचानेकव त्रस्य । एकवस्त्रस्य सांख्यायने नयद्येकवस्त्रोयज्ञोपवीतं कर्णेकृत्वेत्युक्तेरितिपृथ्वी चंद्र चंद्रिकादयः । कर्णश्चदक्षिणः । पवित्रदक्षिणेकणें कृत्वाविण्मूत्रमुत्सृजेदितिलिङ्गात् पवित्रस्यदक्षिणकर्णस्थत्वोक्तेरुपवीतमपितत्रैवेतिमाधवीये । द्विवस्त्रत्वे — नियम्यप्रयतोवाचंनिवीतांगो वगुंठितइतिमनूक्तेर्निवीतमित्याचारादर्शः । मदनरत्नेप्येवम् । स्मृतिरत्नावल्यांतु - दिवासंध्या सुकर्णस्थब्रह्मसूत्रउदङ्मुखइति ब्रह्मचारिप्रकरणेयाज्ञवल्क्योक्तेर्ब्रह्मचारिणः कर्णेनिधानं गृहिणस्तु पृष्ठलंबितमित्युक्तम् । वस्तुतस्तुनिवीतपृष्ठलंबितयोर्विवस्त्रादिपरत्वात् यद्येकवस्त्रइत्यस्यब्रह्मचारिपरत्वासंभवात् पृथ्वी चंद्रोक्तिरेवन्याय्या । ब्रह्मचारिप्रकरणेयाज्ञवल्क्योक्तिस्तुप्रथमंत्रह्मचारिधर्माभिधानात् प्रत्युतसाधिका । गौतमीयेइतरेषांचैतद विरोधीतिगृहस्थादौत्रह्मचारि धर्मातिदेशसाधकत्वादित्युक्तम् । अतएवस्मृत्यर्थसारे—उपवीतंनि
For Private And Personal