________________
Shri Mahiya Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs
Gyanmandir
एकामप्यथवादद्यादभीष्टामनयोर्द्वयोः । दीपदानमहासत्रंकृत्वाफलमुपाश्रुते । दीपनिर्वाणनिषेधोभविष्ये-तांश्चदत्वानहिंसेतनच तैलविवर्जितान् । कुर्वीतदीपहिंसायोमूषकोंऽधःप्रजायते । भविष्योत्तरे-प्रज्वाल्यदेवदेवस्यकर्पूरेणतुदीपकम् । अश्वमेधमवाप्नोति कुलंचैवसमुद्धरेत् । संवर्तः–देवागारेद्विजानांचदीपंदत्वाचतुष्पथे । मेधावीज्ञानसंपन्नश्चक्षुष्मान्जायतेनरः ॥ | अधनैवेद्यं । कृष्णभट्टीये--नैवेद्यजलपुष्पादौधेनुमुद्रांप्रदर्शयेत् । गोविंदराजीयेब्रह्मांडे-पत्रंपुष्पंफलंतोयमन्नपानाय || मौषधम् । अनिवेद्यनमुंजीतयदाहारायकल्पितम् । तत्रैवपाझे-अनिवेद्यहरे(जन्सप्तजन्मनिनारकी । निवेदितस्यभक्षणप्रतिपत्तिरिति गोविंदराजः । तन्न । यद्भक्षयेत्तन्निवेदितमितिवाक्यार्थात् । अनिवेदितभक्षणनिषेधात्सर्वान्ननिवेदननिषेधः । व्यवदानद्वारापुरो डाशस्येवोद्धृतान्ननिवेदनद्वारासन्निनिवेदनमितिवाच्यम् । उद्धरणाविधानात् । तद्विधानेपिसर्वपुरोडाशत्यागवत्सन्निनिवेदनसिद्धेश्च । निवेदितशेषत्वेनसर्वस्यनिवेदितत्वांगीकारेलक्षणापानाच्च । पाकैक्येनिवेदितेनैववैश्वदेवः स्विष्टकृद्वत् । यत्तुशातातपः-एकस्मिन्वाप्यशक्त |श्चत्पूर्वविष्णुनिवेदनम् । वैश्वदेवंततःशिष्टाद्व्यासस्यवचनंयथेतिशिष्टपदंतत्सर्वपुरोडाशत्यागे शेषात्स्विष्टकृतवद्विष्णोनिवेदितान्नेनयष्टव्यंदेवतांतर मितिश्रीधरोक्तेःसर्वनिवेदनेप्युपपन्नमितिगोविंदराजः । भदिनकरस्तु वैश्वदेवार्थनैवद्यार्थपाकभेदेनिवेदितमेवसंस्कृतमेव भक्षयेदिति । नियमद्वयंनयुक्तम् । एकभक्षणेन्यतरनियमबाधात् । उभयभक्षणेनियमद्वयबाधात् । अतोनिवेदितमेवभक्षयेदितिवचोहोमासाधनवटकतांबूला दिपरं । हुतमेवभक्षयेदितिहविष्यपरं । यद्वानिवेदितमेवभक्षयेदितिवैश्वदेवानधिकारिपरम् । अथवापाकैक्येप्यहविष्यस्येवपाकभेदेपिनिवेदित स्याहुतस्यापिहुतत्वमस्त्येव । नहिपाकभेदेवैश्वदेवभेदः । महानससंस्कारत्वाद्वैश्वदेवस्य । एवंनिवेदितत्वमपिनचसर्वनिवेदनं । निवेदितस्यदा हादिविधानेनसर्वान्नदाहाद्यापत्तेः । पाकैक्येप्येवम् । तस्मादुद्धत्यैवनिवेदनमित्याह । विष्णुः-मेषीमहिषीछागीनांदुग्धदधिघृतान्यदेयानि ।।
For Private And Personal