________________
Shri Mahavaradhana Kendra
आचाररत्नं ॥ ७७ ॥
www.kobatirth.org
Acharya Shri Kailashsag yanmandir
| गारुडे – तुलसीदलसंमिश्रंहरेर्यच्छतियः सदा । नैवेद्यमित्यादिस्मृतिरत्नावल्याम् । नैवेद्यस्यत्वभावेतुफलान्यपिनिवेदयेत् । फलाना मप्यलाभेतुतृणगुल्मौषधीरपि । औषधीनामला भेतुतोयान्यपिनिवेदयेत् । तदलाभेतुसर्वत्रमान संप्रवरंस्मृतम् । नैवेद्यांशदानमुक्तं पारिजाते संग्रहे — विष्वक्सेनायदातव्यंनैवेद्यस्यशतांशकम् । पादोदकंप्रसादंचलिंगेचंडेश्वरायतु । तद्विधिः पंचरात्रे - ततोजव |निकांविद्वानपसार्ययथाविधि । मुख्यादीशानतः पात्रान्नैवेद्यांशंसमुद्धरेत् । टोडरानंदेविष्णुधर्मे – फलानिदत्वादेवेभ्यः सफलांविंदतेश्रि यम् । अथफलं भविष्ये - फलंचक्कथितंविद्धंकृमिभिस्तद्विवर्जयेत् । यत्नपक्कमपिग्राह्यं कदलीफलमुत्तमम् । अथतांबूलस्कांदेतांबूलानांकिसलयंदत्वास्वर्गमवाप्नुयात् । इति ॥
अथप्रणामः । टोडरानंदेचंद्रिकायांचवाराह भविष्ययोः - प्रणम्यदंडवद्भूमौनमस्करेणयोर्चयेत् । सयांगतिमवाप्नोतिनतांऋतु | शतैरपि । हलायुधे—–नदेवंपृष्ठतः कृत्वाप्रणामंक्कचिदाचरेत् । वरमुत्थाय कर्तव्यंनवृथाभ्रमणंचरेत् । तत्रैव - एकहस्तप्रणामश्चएकाचैवप्रद | क्षिणा | अकालेदर्शनंचैवपुण्यं हंतिपुराकृतम् । एकेति चंडान्यपरम् । तस्याएकप्रदक्षिणायावक्ष्यमाणत्वात् । गोविंदराजीये भविष्येअग्रेपृष्ठेवामभागेसमीपेगर्भमंदिरे । जपहोमनमस्कारान्नकुर्याद्देवतालये । वाराहे – वस्त्रप्रावृतदेहस्तुयोनरःप्रणमेतमाम् । सदासजायते मूर्खः सप्तजन्मसुभामिनि । इदंपरिधानीयान्यपरम् । चंद्रिकायांनारसिंहे - नमस्कारेण चैकेन अष्टांगेनहरिंस्मरेत् । पद्भ्यां कराभ्यांशिरसा | पंचांगाप्रणतिःस्मृता । दोर्भ्यां पद्भ्यांच जानुभ्यामुरसाशिरसातथा । मनसावचसाभक्त्याप्रणामोष्टांगईरितः । चंद्रिकायांतु — उरसाशिरसा | दृष्ट्यामनसापिधियापिच । पद्भ्यांकराभ्यांवाचाचप्रणामोष्टांगउच्यतेइत्युक्तम् । संग्रहे - शिरोहस्तौच जानू चचिबुकं बाहुकद्वयम् । पंचांग स्तुनमस्कारोविद्वद्भिः समुदाहृतः । पाद्मे भूमिमापीड्य जानुभ्यांशिरआसेव्यवैभुवि । प्रणमद्यो हिदेवेशं सोऽश्वमेधफलं लभेत् ॥
For Private And Personal
देवपूजा.
॥ ७७ ॥