________________
Shri Mahavi adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsag yanmandir
शवप्रिये । केशवार्थविचिन्वामिवरदा भवशोभने । इतितुलसीग्रहणमंत्रः । अवंतीखंडेस्कांदे - येऽर्चयंतिहरेर्मूर्तिको मलैस्तुलसीदलैः । कोटिकोटिसुवर्णानांदानस्यफलमाप्नुयुः । तत्रैव – सुमंजर्यासदलयातुलसीभवयाहरेः । पूजांकुर्वीत योनित्यंसपूजाफलमश्रुते । शंख:वानस्पत्येमूलफलेदार्वन्यर्थेचगोस्तृणम् । देवतार्थैचकुसुममस्तेयं मनुरब्रवीत् । इदंद्विजपरम् । द्विजस्तृणैधः पुष्पाणिसर्वतः स्वयमाहरेदिति याज्ञ वल्क्योक्तेः । एतन्नित्यपूजापरम् । - पारक्यारामसंजातैः कुसुमैरर्चयेत्सुरान् । तेनपापेनलिप्येऽहंयदेतदनृतं भवेदिति नारदीयादितिपंचा यतनसारः । आह्निकप्रदीपेस्कांदे — पत्रवायदिवापुष्पफलंनेष्टमधोमुखम् । दुःखदंतत्समाख्यातंयथोत्पन्नंप्रदापयेत् । अधोमुखार्पणं नेष्टंपुष्पांजलिविधिंविना ॥ ॥ लक्षपूजायांविशेषः । लक्षपूजासुसर्वासुपुष्पमेकैकमर्पयेत् । समुदायेनचेत्पूजालक्षपुष्पार्पणंहितत् । लक्षपुष्पा दौपुष्पाद्यर्पणंयथेच्छमितिपंचायतनसारे । जटमले - येषांशंसंतिपुष्पाणिप्रशस्तान्यर्चनेहरेः । पल्लवाअपितेषांस्युः फलंवार्चाविधौहरः । पाद्मे — बिल्वपत्रंशमीपत्रं तुलस्यामलकंतथा । कुशपत्रं भृंगराजंसदाग्राह्यंहरेर्बुधैः । बिल्वपत्रेविशेषः शिवधर्मोत्तरे - अच्छिन्नैर्वि ल्वपत्रैश्च अच्छिन्नायैस्त्रिपत्रकैः । वामपत्रेवसेद्ब्रह्मापद्मनाभश्चदक्षिणे । पत्रात्रेलोकपालाश्वमध्ये पत्रेसदाशिवः । पृष्ठभागेस्थितायक्षाः पूर्वभागे ऽमृतंस्थितम् । तस्माद्वैपूर्वभागेन अर्चयेगिरिजापतिम् । जटमल्ले - येषांशंसंतिपुष्पाणिप्रशस्तान्यर्चने हरेः । पल्लवाअपितेषांस्युः फलंवाच | विधौहरेः । भविष्ये – फलानामप्यलाभेतुतृणगुल्मौषधीरपि । औषधीनामभावेतुभक्त्याभवतिपूजितः । मनसापूजयेदित्यर्थः ॥
अधूपः । तिथितत्वेकालिकापुराणे – मधुमुस्ताघृतंगंधोगुग्गुल्वगरुशैलजम् । सरलंसिद्ध सिद्धार्थादशांगोधूपइष्यते । मदन रत्ने - षड्भागकुष्ठंद्विगुणोगुडश्चलाक्षात्रयंपंचनखस्यभागाः । हरीतकी सर्जरसश्चमांसीभागैकमेकंत्वथशैलजस्य । घनस्यचत्वारिपुरस्यचैकंधूपो |दशांगः कथितोमुनींद्रैः । द्विगुणोव्यंशः । शैलजंमध्यदेशेतूलइतिप्रसिद्धम् । घनोमुस्ता । पुरोगुग्गुलुः । व्रतहेमाद्रौ भविष्ये - अगरुंचं
For Private And Personal