________________
Shri Man
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
टापविद्धानित्यजेत्पर्यषितानिच । तुलस्यगस्तिबिल्वानांनास्तिपर्युषितात्मता । मदनपारिजाते-जलंपर्युषितंत्याज्यपत्राणिकुसुमानिच । तुलस्य गस्तिबिल्वानिगांगंवारिनदुष्यति । विष्णुधर्मोत्तरे-तुलस्यांबिल्वपत्रेचजलजेषुचसर्वशः । नपर्युषितदोषोस्तिमालाकारगृहेषुच । स्कांदे-पलाशंदिनमेकंचपंकजंचदिनत्रयम् । पंचाहंबिल्वपत्रंचदशाहंतुलसीदलम् । पर्युषितंनेत्यर्थः । हलायुधे–जलजानांचसर्वेषां बिल्वपत्रस्यचैवहि । तेषांपर्युषिताशंकाकार्यापंचदिनोव॑तः । तीर्थसौख्यप्राप्ते--तुलसीनोपर्युषिताबिल्वंचत्रिदिनावधि । पद्मपंचदिना त्याज्यशेषपर्युषितंविदुः । तत्रैवस्कांदेदमनमुपक्रम्य तस्यमालाभगवतःपरमप्रीतिकारिणी । शुष्कापर्युषितावापिनदुष्टाभवतिक्कचित् ।। पूर्वोक्तदिनसंख्यातिक्रमेपिमालाकारगृहस्थमदुष्टमितिशैवागमः । स्मृतिसारावल्यां–जलजानांचसर्वेषांपत्राणामहतस्यच । कुश पुष्पस्यरजतसुवर्णकृतयोरपि । नपर्युषितदोषोस्तितीर्थतोयस्यचैवहि । बोपदेवः-बिल्वापामार्गजातीतुलसिशमिशताकेतकी,गदमंदां मोजाहिद मुनितिलतगरब्रह्मकहारमल्ली । चंपाश्वारातिकुंभादमनमरुबकाबिल्वतोहानिशस्तास्त्रिंशत्येकार्यरीशोदधिनिधिवसुभूभूयमाभूयएव ।
अस्थार्थः-शताशतावरी । मंदोमंदारः । अहि गचंपकः । मुनिरगस्त्यः । ब्रह्मपलाशम् । कलारंकुमुदम् । तेननपौनरुक्त्यम् । IS अश्वारातिःकरवीरः । अरीषट् । ईशःएकादश । उदधिश्चत्वारः । निधिर्नव । वसुरष्टौ । भूरेकः । यमौद्वौ । बिल्वमारभ्याहिपर्यंतं |
गणयित्वादर्भमारभ्यत्रिंशदादिसंख्ययापुनर्गणयेदित्यर्थः । तत्वसागरसंहितायां यद्वापर्युषितैश्चापिपुष्पाद्यैरविकारिभिः । गंधोदके नचैतानित्रिःप्रोक्ष्यैवप्रपूजयेत् । पारिजातेआदित्यपुराणे-शिवेकुंदंमदंतींचयूथींबंधूककेतकम् । जपारक्तंत्रिसंध्यद्वेसिंदूरकुटजानितु । मालतींघुसृणंचैवहयारिबर्बरीत्यजेत् । नशस्तंशाल्मलंपुष्पंकूष्मांडंचनशोभनम् । कलिकामुकुलैलेंज्याविनाचंपकपंकजैः । पुष्पमालायाम्मंदारमर्कचत्तूरशाल्मलीकांचनालजम् । निषिद्धविष्णुपूजायांपुष्पंबैभीतकंतथा । निषिद्धंविद्धितंविष्णौशिरीषंशक्रपुंड्रकम् । नरसिंहस्यपूजायां
For Private And Personal