SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Ma n Aradhana Kendra www.kobaith.org Acharya Shri Kailash a nmandie आचारत्नं तर्पणं. ॥६९॥ ध्यायान्सुहृत्संबंधिबांधवान्द्रव्यान्नदातृपोषकरिक्थिनस्तत्पनीश्चतर्पयेदिति । त्रिस्थलीसेती-आदौपिताततोमातासपत्नजननीतथा । मातामहाःसपत्नीकाआत्मपत्यस्ततःपरम् । सुतभ्रातृपितृव्याश्चमातुलाश्चसभार्यकाः । दुहिताचखसाप्रोक्तादौहित्रोभागिनेयकः । पितृष्वसा मातृष्वसाश्वशुरौगुरुरिक्थदौ । एतेस्युः पितरस्तास्तपणेचमहालये। छंदोगपरिशिष्टे-येचान्येमत्तउदकमर्हतितांस्तर्पयामीत्यवसानां जलिरिति । तर्पणोत्तरंकाशीखंडे-आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवाः । तृप्यंतुपितरःसर्वेमातृमातामहादयः । अतीतकुलकोटीनांसप्तद्वी पनिवासिनाम् । आब्रह्मभुवनालोकादिदमस्तुतिलोदकम् । हेमाद्रौकार्णाजिनिः-देवतानांपितृणांचजलेदद्याजलांजलीन् । असंस्कृ तप्रमीतानामेकमेवतटेक्षिपेत् । बौधायनः-जलांजलित्रयंदद्याद्येचान्येसंस्कृताभुवि । असंस्कृतप्रमीतानामेकमेवतटेक्षिपेत् । मंत्र:यत्रक्कचनसंस्थानाक्षुत्तष्णोपहतात्मनाम् । तेषांहिदत्तमक्षय्यमिदमस्तुतिलोदकम् । हेमाद्रीभविष्ये-संतर्यविधिवद्भक्त्याइममंत्रमुदीर येत् । येबांधवाबांधवावायेऽन्यजन्मनिबांधवाः । तेतृप्तिमखिलायांतुयश्चास्मत्तोंऽबुवांच्छति ॥ ___ अथश्राद्धांगतर्पणम् । नचतत्रमानाभावः । परेयुःश्राद्धकृन्मोनतर्पयतिवैपितॄन् । तस्यतेपितरःक्रुद्धाःशापंदत्त्वावजंतिहीतिबृह नारदीयात् । यस्तर्पयतितान्विप्रःश्राद्धंकृत्वापरेहनि । पितरस्तेनतृप्यंतिनचेत्कुप्यंतिवैभृशमितिप्रयोगपारिजातेगर्गेणांगत्वोक्तेश्च । शातातपः-पूर्वतिलोदकंदत्वाआमश्राद्धंतुकारयेत् । प्रत्यब्देनभवेत्पूर्वपरेहनितिलोदकम् । पक्षश्राद्धेहिरण्येचअनुव्रज्यतिलोदकम् । अनु व्रज्यश्राद्धंकृत्वातदह्नयवेत्यर्थः । बृहन्नारदीये-पक्षश्राद्धंयदाकुर्यात्तर्पणंतुदिनेदिने। सकृन्महालयेचैवपरेहनितिलोदकम् । हेमाद्रौवसि ठः-तीरेजलाशयस्यैवनिवर्त्य पितृतर्पणम् । निष्पीडयेत्स्नानवस्त्रंदक्षिणाभिमुखःस्थले । तत्रमंत्रोब चपरिशिष्टे-प्राचीनावीतीयेकेचा स्मत्कुलइतिवस्त्रं निष्पीडयेदिति । चंद्रोदयेवृद्धपराशरः-वस्त्रनिष्पीडनेमत्रैस्तिलदर्भयुतंत्यजेत् । येमेकुलेलुप्तपिंडाःपुत्रदारविवर्जिताः । For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy