________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तेषां तुदत्तमक्षय्यमिदमस्तुतिलोदकम् । पितृवंशेमृतायेचमातृवंशेतथैवच । येमे कुलेलुप्तपिंडाः पुत्रदारविवर्जिताः । तेषां तुदत्तमक्षय्यमिदमस्तुति | लोदकम् । पितृवंशेसृतायेचमातृवंशेतथैवच । सदातृप्तिर्भवत्वेषांतिलैस्तुसहवारिणा । अपुत्रायेमृताः केचित्पुमांसोयोषितोपिवा । अस्मद्वंशेतुतेभ्यो | वैदत्तंवत्रजलंमया । सएव । नपूर्वंतर्पणाद्वस्त्रंनचांभसिनपादयोः । एषुचेत्पीडयेद्वराक्षसंतदतिक्रमात् । मनुः - वस्त्रं त्रिगुणितंयस्तुनिष्पी डयतिमंदधीः । वृथास्त्रानंभवेत्तस्यपुनःस्त्रानंविशोधनम् । जाबालि : - नाप्सु निष्पीडयेद्वस्त्रं सर्वथाद्विजसत्तमः । धौतंचद्विगुणीकृत्य भूमि लग्नं नपीडयेत् । वृथास्त्रानंभवेत्तस्ययश्चाधोदशमंबुनि । मदनरत्नेपराशरः - द्वादश्यांपंचदश्यांचसंक्रांतौश्राद्धवासरे । वस्त्रनिष्पीडयेन्नैवनच क्षारेणयोजयेत् । पंचदश्यमा । एकादश्याममायांचमातापित्रोः क्षयेहनि । नपीडयेत्स्नानवस्त्रंनचक्षारेणयोजयेदित्याचार चंद्रोदये भृगूक्तेः । तत्रैव - शनिभौमास्थिते श्राद्धे कुहूषष्ठीनिरंशके । वस्त्राणां क्षारसंयोगोदहत्यासप्तमं कुलम् । तत्रैव - आदित्य सौरिधरणी सुतवासरेपुप्रक्षालनायरज कायनवस्त्रदानम् । शंसंतिगर्गयमविष्णुपराराराद्याः पुंसांभवंतिविपदः सहपुत्रपौत्रैः । चंद्रोदयेसंग्रहे - वस्त्रं चतुर्गुणीकृत्यनिष्पीड्य सदशंतथा । वामप्रकोष्ठे निक्षिप्यस्थलस्थश्चद्विराचमेत् । जाबालि : - निष्पीडितंधौत वस्त्रयदास्कंधेविनिक्षिपेत् । तदादुष्टंभवेत्कर्मपुनः स्नानंविशोधनम् ।
अथमध्याह्नसंध्या । दक्षः - अध्यर्धयामादासायंसंध्यामाध्याह्निकीष्यते । संध्यात्रयंतुकर्तव्यंद्विजेनात्मविदासदा । उपन यनदिनेमध्याह्नसंध्यामाह प्रयोग पारिजाते जैमिनिः — यावद्ब्रह्मोपदेशस्तु तावत्संध्यादिकंचन । ततोमध्याह्नसंध्यादिसर्वकर्मसमाचरेत् । अत्रकश्चिद्वद्वृचानामुपनयनदिनेतिष्ठेदहःशेषमित्युपवेशन निषेधान्नतद्दिनेमध्याह्वसंध्येत्याह । तत्ररागप्राप्तस्य निषेधात् । प्रातः संध्यावन्मध्या ह्रसंध्या । विशेषस्तूच्यते-- आपः पुनंतुमध्याह्ने कुर्यादाचमनंततः । अर्घ्यदानेव्यासः - मध्याह्नेसकृदेवार्थ्यंक्षेपणीयंद्विजातिभिः । शौन कः - मध्याह्नेतु विशेषोयमुपस्थानंतथार्ध्यकम् । अपामंजलिमापूर्यआकृष्णेनेतिनिक्षिपेत् । हंसवत्याकृष्णेनेतिवादद्यादित्युक्तं बहुच
For Private And Personal
exoneeseeneses