________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
जान्वाचनाद्यभावेनभेदावश्यकत्वादितिवयंप्रतीमः । एतेनापसव्येनेतिवदन् दिवोदासोऽपास्तः । हेमाद्रौब्राह्म-प्रथमंतपयद्देवान्ब्रह्मादी श्चततोऋषीन् । मरीचिप्रमुखांश्चैवरुद्रादित्यवसूंस्तथा । यक्षान्पशून्सुपर्णाश्चभूतग्रामंचतुर्विधम् । आचार्यानितरांश्चैवकालस्यावयवानपि । सनकप्रमुखांश्चैवमनुष्यास्तदनंतरम् । कव्यवाडनलादींश्चततःपितृगणानपि । ततोमातामहानांचपितृव्याणांततःपरम् । पत्नीनांचसुतानांच पितृमातृष्वसुस्तथा । मातुलानीचदुहितावसाचार्यविजस्तथा । शिष्याश्चज्ञातयश्चैवसुहृत्संबंधिनस्तथा । एतेषांतर्पणकार्ययथावदनुपूर्वशः। ज्ञाताज्ञातान्समुद्दिश्यप्रदेयश्चांजलिस्ततः । तत्रैवस्कांदे-पूर्वमोदप्रमोदादीस्तर्पयेत्पड्डिनायकान् । एतौमोदप्रमोदौसुमुखदुर्मुखाविघ्नविग्रह तारइतिषट् । ततोब्रह्मादयोदेवाःसनकाद्यास्ततःपरम् । अग्निष्वात्तादिकानांतुपितॄणामप्यनुक्रमात् । यमायधर्मराजायकुर्यात्सतर्पणंबुधः । पितॄणामथमातॄणांततोमातामहस्यच । पत्नीश्वशुरबंधूनांसुतसंबंधिनांततः। भारते-पूर्वस्ववंशजातानांकृत्वाद्भिस्तर्पणबुधः । सुहृत्संबंधिवर्गा णांततोदद्याजलांजलीन् । सदानाविजलंतज्ज्ञाःप्रयच्छंतिसमाहिताः । नारदीये-अग्निप्रभृतयोदेवास्ताःस्युरनुपूर्वशः । ततःशतर्चिना द्यास्तुमुनयःशंसितव्रताः । ततःकांडऋषीन्सस्तिर्पयेच्छूद्धयान्वितः । पितृभ्यःप्रत्यहंदद्यात्ततोमातृभ्यएवच । ततोमातामहानांचपितृव्यस्यसु तस्यच । पित्रादितर्पणोत्तरंगारुडे-अथमातामहीनांचस्वपत्नीनामनंतरम् । तर्पणंचपितृव्याणांतत्पत्नीनांततोपिच । पितृष्वसुश्चतद्भर्तुर्मातु लस्यापिनित्यशः । मातुलान्यास्ततोमातृष्वसुस्तत्पत्युरेवच । श्वशुरस्यचकर्तव्यंश्वश्रूणामपितर्पणम् । आचार्याणांततःकुर्यादाचार्यानीभ्यएवच । बंधूनांभ्रातृपत्नीनांपुत्रंचैवस्नुषामपि । पुत्रींतस्याः पतिंचैवभगिनींतत्पत्तिथा । भागिनेयंचपौत्रंचदौहित्रंयाज्यमृत्विजम् । शिष्यंचमित्रसंतl तत्पनीस्तुतथैवच । वाराहे-आत्मनोपिजलंदद्यादितिद्वैपायनोब्रवीत् । इदंचापुत्रपरम् । शंख:-आसप्तमात्पुरुषापितृपक्षेयावतांना मजानीयात्तावतांतर्पणंकुर्यादितिहारीतः । पित्रादीन्मात्रादीन्मातामहादीन्पितृव्यांस्तत्पुत्रान्ज्येष्ठभ्रातृ॑स्तत्पनीर्मातुलांस्तत्पत्नीगुर्वाचार्योपा
For Private And Personal