________________
Shri Mara
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha
olyanmandir
आचाररत्न
॥६८॥
स्तथा । औदुंबरश्चदध्नश्चनीलश्चपरमेष्ठिना । सहितइतिशेषः । वृकोदरश्चचित्रश्चचित्रगुप्तस्तथार्यमा । तस्मात्यातर्पयित्वैतान्पित्रादीस्तर्पये ततः । मातामहान्मातुलांश्चसखिसंबंधिबांधवान् । स्वजनान्नातिवर्गीयानुपाध्यायान्गुरूनपि । पितृन्भृत्यानपत्यांश्चयेभवंतितदाश्रिताः ।। तान्सस्तिर्पयेद्विद्वानीहंतेतेयतोजलम् । अत्रध्रुवायनमइतिप्रयोगइतिचंद्रिका । ध्रुवंतर्पयामिनमइतिहेमाद्रिः। कव्यवाडनलएकादेवतेति हरिहरः । कव्यवाटअनलइतिद्वदेवतेतिकल्पतरुः । तन्न । कव्यवाहोनलश्चेतिगोभिलविरोधात् । यमादितर्पणंचतुर्थ्यतनामभिरेवेति हेमाद्रिः। कव्यवाडनलःसोमोधर्मश्चेतिचंद्रिकायांपाठः॥ __ यमतर्पणेविशेषमाह चंद्रोदयेयमः-देवत्वाद्देवतीर्थेनपितृत्वादक्षिणामुखः । देवत्वंचपितृत्वंचयमस्यास्तिद्विरूपता । हेमाद्रौ ब्राह्म इदंप्रकृत्य-यज्ञोपवीतिनाकार्यप्राचीनावीतिनातथा । मनु:-एकैकस्यतिलैमिश्रास्त्रींस्त्रीन्दद्याजलांजलीन् । स्मृत्यर्थसारेदीपोत्सवचतुर्दश्यांकार्यतुयमतर्पणम् । अंगारकचतुर्दश्यामपिकार्यसदैववा ॥ ॥ अथभीष्मतर्पणम् । तन्माघशुक्लगाष्टम्यांभीष्मायतु तिलोदकम् । अन्नंचविधिवद्युःसर्वेवर्णाद्विजातयइतिधवलनिबंधस्मृतेः । जीवत्पिताप्येतत्कुर्यात् । जीवत्पितापिकुर्वीततर्पणंयमभीष्मयो रितिपाद्मादितिपितृचरणाः । इदंचनित्यम्-ब्राह्मणाद्याश्चयेवर्णादधुर्भीष्मायनोजलम् । संवत्सरकृतंतेषांपुण्यनश्यतिसत्तमेतिमदनरत्नो क्तेः। धवलनिबंधे-भीष्मःशांतनवोवीरःसत्यवादीजितेंद्रियः । आभिरद्भिरवाप्नोतुपुत्रपौत्रोचितांक्रियाम् । वैयाघ्रपद्यगोत्रायसांकृत्यप्र वरायच । अपुत्रायददाम्येतजलंभीष्मायवर्मणे । वसूनामवतारायशंतनोरात्मजायच । अयंददामिभीष्मायआबालब्रह्मचारिणे । इति । अयं तर्पणमंत्रइतिकेचित् । अर्घ्यददामीत्यग्रेतनेनैकवाक्यत्वान्नार्घ्यमंत्रइतिनानातर्पणम् । यत्तु-सत्यव्रतायशुचयेगांगेयायमहात्मने । भीष्मायैतद्द Hदाम्यय॑माजन्मब्रह्मचारिणे । वैयाघ्रपद्यःसव्येनानेनमंत्रणवर्णिकमितिपातत्रतदर्पणंगौणम् । अोपक्रमात् । नचानयोर्नभेदः । अयेसव्य!
॥६॥
For Private And Personal