________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
आचाररत्नं
॥६३॥
तीर्थतर्पणवत् । तिथिवारग्रहणनक्षत्रयोगादेरुपलक्षणम् ।कात्यायन:-उपरागेपितुःश्राद्धपातेमायांचसंक्रमे । निषिद्धेपिहिसर्वत्रतिलैस्तपणा माचरेत् । संक्रमोऽयनभिन्नइतिप्रयोगपारिजातः। तन्न-उपप्लवेचंद्रमसोरवेश्चत्रिष्वष्टकास्वप्ययनद्वयेच । पानीयमप्यत्रतिलैर्विमिश्रंदद्या पितृभ्यःप्रयतोमनुष्यः । श्राद्धंकृततेनसमाःसहस्ररहस्यमेतत्पितरोवदंतिइति हेमाद्रौविष्णुपुराणविरोधात् । अत्रपानीयमितिवचनादा वश्यकतायनश्राद्धद्वयस्योच्यतइतिहेमाद्रौ । मकरंप्रकृत्यकृत्यकल्पटुमे-तिलैःस्नानंप्रकुर्वीततिलैरेवाशनंबुधः । देवतानांपितृणांचतिले स्तर्पणमाचरेत् । अतःपारिजातोक्तिश्चित्या । कात्यायनोक्तिःस्नानांगतर्पणपरा । मुख्येतिलनिषेधएवेति । देवजानीयेगंगादौननि षेधः-तीर्थतिथिविशेषेचगंगायांप्रेतपक्षके । निषिद्धेपिहिसर्वत्रतिलैस्तपणमाचरेदितिपृथ्वीचंद्रधृतवचनात् । तीर्थपदेनैवगंगाग्रहेपुनगंगाग्र हासर्वदाततिलप्राप्त्यर्थः अन्यतीर्थेषुप्राप्तिदिनेएवेति । तिथितीर्थविशेषेषुकार्यप्रेतेचसर्वदेतिप्रयोगपारिजातेबौधायनोक्तेश्च । संक्रांत्या || दिनिमित्तेषुस्नानांगेतर्पणेद्विजः । तिथिवारनिषिद्धेपितिलैस्तर्पणमाचरेदितियोगयाज्ञवल्क्योक्तेश्च । हारीतः-वसित्वावसनंशुष्कंस्थले विस्तीर्णबर्हिषि । विधिज्ञस्तर्पणंकुर्यात्पात्रेषुनकदाचन । यत्राशुचिस्थलंवास्यादुदकेदेवताःपितॄन् । तर्पयेत्तुयथाकाममप्सुसर्वप्रतिष्ठितम् । विष्णुः-आर्द्रवासादेवर्षिपितृतर्पणमंभःस्थएवकुर्यात्परिवर्तितवासाश्चेत्तीर्थादत्तीर्येति । अंभःस्थइतिकातीयान्यपरम् । तेषामुत्तीर्यतर्पणकार्यमि त्युक्तरित्याचारादर्शः । हेमाद्रौषत्रिंशन्मते-नतर्पयेत्पिवृन्दिव्यान्जलसंस्थःस्थलेक्वचित् । स्थलस्थस्तुक्कचित्कुर्याजलेप्यशुचिचे त्थलम् । बौधायनः-वस्त्रंपरिधायाद्भिरेवाप्सुयथोत्तरंदेवान्पि→स्तर्पयेदिति । अप्खेवेत्यर्थः । | उद्धृतजलेनतर्पणेविशेषमाह हारीतः-पात्राद्वाजलमादायशुभेपात्रेविनिक्षिपेत् । जलपूर्णेतथागर्नेनस्थलेतुविवर्हिषि । हेमाद्रौ गोभिल:-नोदकेषुनपात्रेषुनक्रुद्धोनैकपाणिना । नोपतिष्ठतितत्तोयंयन्नभूमौप्रदीयतइति तत्स्थलस्थस्यानुद्धृततर्पणपरम् । पितामहः
RECECOS
For Private And Personal