________________
Shri Mal
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashop
Gyanmandir
तर्पणं.
आचाररत्वंसंबंधः । बौधायन:-अथनिवीतीऋषींस्तर्पयेदिति । यत्तुउपवीतीऋषींस्तर्पयेदित्याचारादर्शस्तद्वचोविरुद्धम् । चंद्रोदयेपाने
कतोपवीतीदेवेभ्योनिवीतीचभवेत्ततः । मनुष्यास्तर्पयेद्भक्त्याऋषिपुत्रान्ऋषींस्तथा । अपसव्यंततःकृत्वासव्यंजानुचभूतले । पितृस्तर्पयेदितिसं ॥६२॥
बंधः । यद्धगार्य: नकुर्वीतापसव्यंचनकुर्वीतापिमुंडनम् । अपसव्यनिषेधःप्रकोष्ठादुपरि । अपसव्यंद्विजाग्र्याणांपित्र्येसर्वत्रकीर्तितम् । आप्रकोणात्मकर्तव्यंमातापित्रोस्तुजीवतोरितिवचनादित्युक्तंजीवत्पितृकनिर्णयेपितृचरणैः । हेमाद्रौशंखलिखितौ-अपसव्यंवा सोयज्ञोपवीतेकत्वेति । तत्रैवप्रचेताः-अपसव्ययज्ञोपवीतवाससइति । वासउत्तरीयम्। बौधायनस्तु-यज्ञोपवीतान्यपेशलानिकृत्वेति । अत्रविकल्प शाखाविशेषपरत्वेनव्यवस्थितिरितिहेमाद्रिः। लौगाक्षिः-नजीवत्पितृकःकुर्यात्तिलैःकृष्णैस्तुतर्पणम् । कृष्णपदंशकतिलनि वस्यर्थमितिकेचित । कृष्णत्वस्योद्देश्यविशेषणत्वेनाविवक्षितत्वात्तपणेतिलमात्रनिषेधइत्यन्ये । गोभिल:-लोमसंस्थांस्तिलान्कृत्वायस्तत प्यतेपिन् । पितरस्तापितास्तेनरुधिरेणमलेनच । स्मृत्यर्थसारे-वामहस्तेतिलान्क्षिप्वाजलमध्येतुतर्पयेत् । स्थलेशाट्यांतटेपारोममलेन) कवचित । कल्पतरीमरीचिः–वामहस्तेतिलाग्राखामुक्त्वाहस्तंतुदक्षिणम् । तिलग्रहणनांगुष्ठेन ।-अंगुष्ठेनतिलैःकुर्याद्देवतापितृतर्पणम् । रुधिरंतद्भवेत्तोयंप्रदाताकिल्बिषीभवेदितिब्राह्मोक्तेः । मरीचिः-मुक्तहस्तेनदातव्यंमुद्रांतत्रनदर्शयेत् । मुद्रातर्जन्यंगुष्ठयोगः । चंद्रिका हेमायोर्मरीचिः-सप्तम्यांरविवारेचगृहेजन्मदिनेतथा । पक्षयोरुभयोराजन्सप्तम्यांनिशिसंध्ययोः । विद्यापुत्रकलबार्थीतिलान्पंचसवर्जयेत ।। भानौभौमत्रयोदश्यानंदाभृगुमघासुच। पिंडदानंमृदास्रानंनकुर्यात्तिलतर्पणम् । मदनरत्नेबौधायन:-सप्तम्यारविवारेचजन्मक्षदिवसेषच । हमायामा गृहेनिषिद्धंसतिलतर्पणंतद्वहिर्भवेत् । यद्युद्धृतंप्रसिंचेत्तुतिलान्समिश्रयेजले । अतोन्यथातुसव्येनतिलाग्राह्याविचक्षणैः । यस्तुगृहेतिलनिषेधः १ शाव्यांतरे इति पाठः।
॥६२॥
For Private And Personal