________________
Shri Maha Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri KailashsagarGyanmandir
पंचदश्यांचतुर्दश्यामष्टम्यांरविसंक्रमे । द्वादश्यांसप्तमीषष्ठयोस्तैलस्पर्शविवर्जयेत् । तत्रैवहारीतः - पंचमीं दशमीं चैवपौर्णमासीत्रयोदशीम् । | तथैवैकादशींचैवयस्तैलमुपसेवते । अभ्यंगात्स्पर्शनाद्वापिभक्षणाचतथैवच । उत्तीर्णातस्यवृद्धिः स्याद्धनापत्यबलायुषाम् ॥
नम् । तत्रमदीयः श्लोकः – रवौसप्तमी श्राद्धषष्ठीव्रतेषु स्वजन्माहसंक्रांतिजन्मन्यनिंदौ । हेस्पृश्यसंस्पर्शनेपौर्णमास्यां मृतौवर्जयेत्स्वानमुष्णोदकेन । अत्रमूलंहेमाद्र्यादौस्पष्टम् । मैथुनेक्षौरे चोष्णोदकंनेतिकृष्णभट्टः । अस्पृश्यस्पर्शेउष्णोदकनिषेधोदिवसे । | अस्पृश्यस्पर्शनेस्वानंनिश्युष्णेनजलेनचेति स्मृत्यर्थसारात् । यत्तुपराशरः -- वृथाद्युष्णोदकस्त्रानंवृथाजाप्यमवैदिकम् । यच्चयाज्ञव ल्क्यः - अशुचिस्पर्शदुष्टाभिरुद्धृताभिस्तुमानवः । स्नानंसमाचरेद्यस्तुनसशुद्ध्यतिकर्हिचिदिति तगंगोदकभिन्नपरम् । बृहन्मनुः–स्त्रातस्य वह्नितप्तेनतथैवपरवारिणा । शरीरशुद्धिर्विज्ञेयानतुखानफलंलभेदिति तदनातुरस्य । तीर्थसत्वेतु — भूमिष्ठमुद्धृतंवा पिशीतमुष्णमथापिवा । गांगंपयःपुनात्याशुपापमामरणांतिकमितिहेमाद्रौमरीच्युक्तेः । चिरंपर्युषितंवापिशुद्रस्पृष्टमथापिवा । जाह्नव्याः स्नानदानादौ पुनात्येवसदा |पयइति तत्रैवादित्यपुराणाच्च । यतुषट्त्रिंशन्मते - आपः स्वभावतोमेध्याः किंपुनर्वह्निसंयुताः । तस्मात्संतः प्रशंसंतिस्त्रानमुष्णेनवारि ति तदातुरपरम् । आदित्यकिरणैः पूतंपुनः पूतंतुवह्निना । आम्नात मातुरे स्नानं प्रशस्तं चोष्णवारियदितिचंद्रिकायांयमोक्तेः । अनातुर | स्यापितीर्थाभावे — नित्यनैमित्तिकं काम्यंक्रियांगंमलकर्षणम् । तीर्थाभावेतुकर्तव्यमुष्णोदकपरोदकैरितियमोक्तेः । मरणादिषुतुतीर्थाभावेपि नोष्णोदकस्त्रानंकिंतुपरोदकैरुद्धृतैर्वेति चंद्रिका । तत्रेतिकर्तव्यतामाहव्यासः - शीतास्वप्सुनिषिच्योष्णामंत्र संभारयोगतः । गृहेपिशस्यते स्वानंतद्धीनमफलंभवेत् । संभारा मृदादयः । मंत्रमहोदधौ - तीर्थाभावेस्खसदनेस्त्रायादुष्णेनवारिणा । हस्तयोरपआदायकुर्यात्तत्राघम र्पणम् । स्मृत्यर्थसारे — उद्धृतजलस्त्रानेमार्जनं कार्यम् । अघमर्षणंजलतर्पणंचानित्यमित्युक्तम् गृह्यपरिशिष्टे-नशीतोदकेनशीतोष्णो
For Private And Personal