________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaggi ranmandir
SSASSO90984900
प्रायश्चित्तसहितंकृत्वावर्तमानकालमनुतप्रायश्चित्तसहितंकुर्यात् । अविहृतेषुकालांतरप्राप्तौमनखतीहोममतिपन्नस्यप्रतिहोमंचकृत्वाअनुद्धृतप्रा यश्चित्तादीनि । इदमनापत्परम् । आपदितुनकिंचित्प्रायश्चित्तंकिंतुहोममात्रंकुर्यात् । आपदितुहोममित्येवप्रतीयादितिबौधायनोक्तेः । छंदो गपरिशिष्टे स्वगृह्योक्तेनविधिनाहोमंकुर्याद्यथाविधि ॥ ॥ अर्धाधानिनोहोमक्रममाह चंद्रोदयेभरद्वाजः-होमवैतानिके | कृत्वास्मातेकुर्याद्विचक्षणः । स्मृतीनांवेदमूलत्वात्स्मार्तकेचित्पुराविदुः । विष्णुः-बहुशुष्कंधनेचानौसुसमिद्धेहुताशने । विधूमलेलिहानेच होतव्यंकर्मसिद्धये । योनर्चिषुजुहोत्यग्नौव्यंगारेचैवमानवः । मंदाग्निरामयावीचदरिद्रश्योपजायते । पात्रादावुद्धतेह्यग्नौनहोमादिसमाचरेत् । दामोदरीयेसांबपुराणे-क्षुत्तृटकोधत्वरायुक्तोहीनमंत्रैर्जुहोतियः । अप्रबुद्धेसधूमेवामोघःस्यादन्यजन्मनि । क्षुत्तृषौप्रमादादेरुपलक्ष णमितिरत्नाकरः । स्वल्पेरूक्षेसस्फुलिंगेवामावर्तेभयानके । आर्द्रकाष्ठैःसुसंपूर्णफूत्करोतिचपावके । कृष्णार्चिषिसुदुर्गधेतथालिंपतिमेदिनीम् । आहुतीर्जुहुयाधस्तुतस्यनाशोभवेद्भवम् । मदनपारिजातेकात्यायनः-जुहुयुश्चहुतेचैवपाणिशूर्पास्यदारुभिः । नकुर्यादग्निधमननकुर्या यजनादिना । व्रतहेमाद्रौ-मुखेनैवधमेदग्निमुखादेषोयजायत । नाग्निंमुखेनेतितुयल्लौकिकेयोजयंतितत् । कात्यायन:- हविष्येषुय वामुख्यास्तदनुव्रीहयःस्मृताः । अभावेव्रीहियवयोर्दनावापयसापिवा । तदभावेयवाग्वावाजुहुयादुदकेनवा । स्मृत्यर्थसारे—पयोदधियवागू श्वसर्पिरोदनतंडुलाः । सोमोमांसतैलमापोदशैतान्यग्निहोत्रके । स्यादग्निहोत्रवगृह्यसंस्कारोमंत्रवर्जितः । शालिश्यामाकनीवाराव्रीहिगोधूमया | वकाः । एतेषांतंदुलाहोम्यायावनालाःप्रियंगवः । प्रियंगवःशालयश्चगोधूमात्रीहयोयवाः । सारूप्येणापिहोम्याःस्युःस्वरूपेणैववैतिलाः । अत्रत्री हिपदंषाष्टिकपरम् । छंदोगपरिशिष्टे-माषकोद्रवगौरादि (१)सर्वालाभेपिवर्जयेत् । शौनका-दध्यादीनामपक्वानांनाधिश्रयणमुच्यते । उल्मुकेनावज्वलयेदपक्वपक्वमेवच । सायहोमेद्रव्यंचप्रातरपिग्राह्यंकमैक्यात् । यदिसायंगृहीतं द्रव्यंप्रातर्नलभ्यतेतदाप्रतिनिधिभूतंद्रव्यांतरंग्राह्यं
Eeeeeeeeeeeeeeee
For Private And Personal