________________
Shri Mahavir Jain Aradhana Kendra
*****************+9
www.kobatirth.org
स्वच्छन्दा नाम अभिग्राहिकास्ते श्रव्यापारिता एवाचार्यानापृच्छय गतास्ते यदि च्छिन्ना संदिष्टास्ततस्तेषामपि सैव सामाचारी या प्राक् व्यापारितानां च्छिणानामुक्ता । परिनययत्ति प्रतिज्ञापना नाम विधिना पात्रादीनां मार्गणा कर्तव्येत्युपदेशदानं उद्गमादिशुद्धानि पात्रादीनि प्रतिग्राह्माणीत्युपदेशदानमिति भावः । तदा गृहीते ग्रहणे च यादृशं कन्पाध्ययनपीठिकायां भणितं तादृशं कर्तव्यं । तत्र यावन्ति संदिष्टान्याचार्येण तावन्ति गृहीतानि यदि न केनचित् भणितं पूर्वं यथा ममापि योग्यं पात्रं ग्राह्यमिति तदा अलं समर्थ धुवं चिरकालावस्थायि पात्रं धारणीयमिति न्यायमनुसृत्य ते चिन्तयन्ति प्रायोग्यमेतत् पात्रं तस्मात् गृह्णीमो गृहीते स एव ग्राहकश्चिन्तयति । श्रहमाचार्यानुज्ञातं धारयिष्यामि । यदि वा स एवाचार्यो धारयिष्यति अन्यो वा साधुर्धारयिष्यति एवमतिरिक्त पतग्रहसंभवः । सम्प्रति ग्रहणे गृहीते च यद्भणितं कन्पपीठिकायां तदेव विनेयजनानुग्रहाय दर्शयति-
पण मादीगणे तु विहिं तर्हि पउंजंति । गहिए य पगासमुहे करेति पडिलेह दो काले ॥ २४४॥ अवमन्थमधोमुखं कृत्वा प्राणादीन् खोटनेन भूमौ यतनया पातयन्ति । अमुं विधिं तत्र ग्रहणे प्रयुञ्जन्ति । गृहीते च तानि पात्राणि प्रकाशमुखानि करोति । तथा द्वौ कालौ प्रातरपराह्णे च प्रत्युपेक्षते । सम्प्रति तेषु पात्रेष्वानीतेषु विधिमाह-आणीतेसु उ गुरुणा दोसुं गहिए तो गया जह बुद्धं । गेरहंति उग्गहे खलु उमादीमत्तसे सेवं ॥ २४५॥ आनीतेषु तु भाजनेषु आचार्येण प्रधानं सुलक्षणं पात्रं मात्रकं च परिग्रहीतव्यं । ततो गुरुणा द्वयोर्गृहीतयोः शेषाणि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***************************