________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
भीब्यव
भष्टम
बारसूत्रस्य
विभागः। ५.उ.
॥४०॥
___अत्र परश्वोदयति यद्यतिरेकपात्रे गृह्यमाणेऽनन्तरोक्ता दोषास्ततोऽवमं गणनया हीनं पात्रं धारयतु । यथा यथाऽन्पोपधिता तथा तथा बहुबहुतरगुणसंभवात् । कथं तया हीनं धारयत्वित्याह-एक बहूनां पश्चानां कल्पते ते च पश्चजनाचक्रवालेन एकस्मिन् दिने एको द्वितीये द्वितीय इत्यादिरूपेण हिण्डतामेतदेव स्पष्टयति । पंचण्हमेगपायं दसमेणं एक्कमेको पारेउ । संघट्टणादि एवं न होंति दुविहं च सिंमोमं ॥ २१५॥
पश्चानां जनानामेकं पात्रं भवतु । तेषां च मध्ये एकैक: क्रमेण चक्रवाललक्षणेन दशमेन पारयतु । यस्य यस्मिन् दिने पारणकं स तत्पात्रं गृहीत्वा हिण्डतामेवं च तेषां परिपाट्यादशमदशमातिक्रमे दिवसे वारके भवति । एवं च संघटनादयो दोषा न भवन्ति । किं च तेषां यद्विविधमवममौदर्य द्रव्यावमौदर्य पश्चानामेकस्य पात्रस्य भावात् भावावमौदर्य च | दशमदशमातिक्रमेण पारणात् तत् गुणो भवति । एतदेवाहआहारे उवगरणे दुविहमेव होति तेसिं तु । मुत्ताभिहियं च कयं वेहारियलक्खणं चेव ॥ २१६ ॥
द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति तेषामाहारे उपकरणे च आहारविषयं मावावममुपकरणविषयं द्रव्यावममित्यर्थः । सूत्रे चाभिहितबहारिकाणां विहारे हितं चैहारिकं तेन गच्छतां लक्षणमन्पोपधिताऽन्पाहारता च तत्कृतं भवति । एतदेवाहवेहारियाण मन्ने जहसिं जल्लेणमइलियं अंगं । मइलाय चोलपट्टा एगं पायं च सव्वेसि ॥ २१७ ॥
॥bou
For Private and Personal Use Only