________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
साधर्मिक इत्युद्देशो भवति स्त्रीणां पुरुषाणां वाभिधानमिति निर्देशः। अथवा गणी वाचक इत्युदेशः । श्रमको गणी अमुको वाचक इतीतरो निर्देशः । सम्प्रति नियुक्तिविस्तरःऊणातिरित्तधरणे चउरो मासा हवंति उग्घाया। प्राणाइणो य दोसा संघट्टणमादिपलिमंथो॥२१२॥
गणनया प्रमाणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्यधरणे प्रायश्चित्तं चत्वारो मासा उद्घाता लघवः आज्ञादयश्च दोषास्तथा पात्रपरिकर्मणां कुर्वन् तजातान् प्राणान् संघट्टयति आदिशब्दात् परितापयति अपद्रावयति वा ततस्तन्निमित्तमपि तस्य प्रायश्चित्तं तथा प्रतिदिवसमुभयकाल पात्राणि अन्यद्वातिरिक्तमुपकरणं प्रत्युपेक्ष्यमाणस्य परिमन्थः सूत्रार्थव्याघात तस्मात् गणनया प्रमाणेन च सूत्रोक्तमुपकरणं धारयितव्यं । तत्र पात्रमधिकृत्यातिरेकं व्याख्यानयतिदो पायाणुगणाया अतिरेगं तइयं च माणातो। धारते पाणकड्डणभारे पडिलेह पलिमंथो ॥२१३॥
द्वे पात्रे तीर्थकरैरनुज्ञाते । तद्यथा-पात्रं मात्रं च । यदि तृतीयं पात्रं गृहाति तदा गणनयातिरेकं भवति । यच प्रमाणं पात्रस्योक्तं ततो यदि बृहत्तरं गृहाति तदा प्रमाणतोऽतिरेकं तत्र गणनया प्रमाणेन वातिरिक्त पात्रं धारयति । परिकर्मणायां तातातजातप्रमाणसंघट्टणमुपलक्षणमेतत् । प्राणानां परितापनमपद्रावणं च तथाध्वनि तद्वहने भारः उभयकालं प्रतिदिवसं प्रतिलेखने परिमन्थः । अत्र परः प्रश्नमुपदर्शयतिचोदेति अतिरेगे जइ दोसा तो धरेइ उभंतु । एक्कं बहूण कप्पइ हिंडंतु य चक्कवालेण ॥ २१४ ॥
For Private and Personal Use Only