________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* प्यतामुत्तरगुणैरशुद्ध द्वे चक्रे क्रियेयाता, पात्रे द्वे चीवरखण्डे द्वौ वा प्रस्तरौ क्षिप्येयाता, मूलगुणैरुत्तरगुणैश्च शुद्ध वने
त्रीणि चक्राणि क्रियेरन् । पात्रे त्रीणि चीवराणि त्रयो वा प्रस्तराः क्षिप्येरन् । इति अमुना प्रकारेण चोदकेनोक्ते आचार्यों ब्रूते किं तदित्याहसुद्धमसुद्धं एवं होति असुद्धं च सुद्धवायवसा। तेणतिदुगेगगंथी वत्थे पायमि रेहाउ ॥ २०४॥
एवं युष्मदुक्तप्रकारेण चक्रकरणे वातवशात् शुद्धमपि चक्रैकद्विकभङ्गतोऽशुद्धं भवति । अशुद्धमपि वातवशेन वक्रत्रिकभावतः सुद्धं भवति । पात्रमापि वातवशेन एकद्विकचीवरापगमे शुद्धमप्यशुद्धं भवति । अशुद्धमपि वातवशेनान्यागन्तुकचीवरखण्डसमागमे शुद्धं तस्मादयं विधिस्तत्र कर्तव्यः। मृलोत्तरगुणशुद्धे वस्खे त्रया ग्रन्थयः कर्तव्याः । पात्रे तिम्रो रेखा उत्तरगुणैरशुद्धे वस्खे द्वौ ग्रन्थी पात्रे द्वे रेखे मूलगुणैरशुद्ध बस्ने एको प्रन्धिः पात्र एका रेखा । श्रद्धाणनिग्गयादी उवएसाणायण पेसणं वावि । अविकोविते अप्पणगं दड्डे भिन्ने वित्तेय ॥ २०५॥ ___ अध्वनि मार्गे निर्गता अध्वनिर्गता आदिशद्वात् आशिवादिभिर्वा कारणैर्निर्गताः परिगृह्यन्ते । तेषामुपकरणे दग्धे वह्निना भस्मीकृते भिन्ने वा विविक्ते वा विस्मरणतः पतिते वास्तव्यास्तान् अध्वनिर्गतादीन् ब्रुवतेऽस्माकमुद्धरितानि वस्त्राणि न सन्ति । केवलमस्माभिरमुकप्रदेशे परिष्ठापितानि वर्तन्ते । तान्यानीय गृहीथ एवमुक्ते तेऽपि प्राघूर्णका ये गीतार्थास्तान् प्रेषयन्ति, वास्तव्या अपि च तेषां चिहानि उपदिशन्ति । यथा गर्तासमीपे तरुसमीपे तडागसमीपे कृपसमीपे इत्यादि । आणयणमिति ।
For Private and Personal Use Only