________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|भिः प्रकारैर्यथा लघुस्वकस्योपकरणाग्रहणे अधिकरणं यदा तु पतिताः कल्पा न गृह्यन्ते । तदा ते बहुदोषतमाः प्रभूततमं तेष्वाधिकमिति भावः। तच्च उपकरणंविना अन्य उपकरणं याचमानस्य परिहानिः सूत्रार्थयोः ये च तृणग्रहणाग्निसेवनादयो दोषास्तेऽपि प्रसजन्ति । | एते अण्णेय बहू जम्हा दोसा तहिं पसज्जती। श्रासगणे अंतो वा तम्हा उवहिं न वोसिरए ॥१५८॥ ___एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्र पतिते प्रसजन्ति तस्माद्दामादीनां बहिरासन्ने प्रदेशे अन्तर्वा तमुपधि न व्युत्सृजेनविस्मरणतः पातयेत् । अधुना यः शङ्कातः शङ्कमानो वा न गृह्णाति तं प्रत्युपदेशमाह-- निस्संकियं तु नाउं विच्चुयमेयंति ताहे घेत्तव्वं । संकादि दोसविजढा नाउं वप्पंति जस्स नयं ॥१५॥ ___यदा एतदुपकरणं कस्यापि विच्युतं विस्मरणतः पतितमिति निःशङ्कितं ज्ञातं भवति तदा नियमतो ग्रहीतव्यं । गृहीत्वा च शादिदोषरहिता मा ममविषये कस्यापि शङ्का स्यादि त्यादि दोषवर्जिता यस्य वत् उपकरणं तस्य ज्ञात्वा समर्पयन्ति । एतच्च यद्विषये कर्तव्यं तदाहसमणुन्नेयराणं वा संजती संजयाण वा । इयरे उ अणुवदेसो गहियं पुण घेप्पए तेहिं ॥ १६॥ समनोज्ञानां सांभोगिकीनामितरासामसांभोगिकीनां संयतीनां संयतानां वा सत्कमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यमितरे तु पार्श्वस्थादयस्तेषामयमुपदेशस्तेषां सक्तं पतितं गृहीत्वा यस्य सक्तं तस्मै देयमिति नास्माकमुपदेशोऽधिकरण
For Private and Personal Use Only