________________
Shri Mahavir Jain Aradhana Kendra
भी व्यव
हारसूत्रस्य
पीठिकाs
नंतरः ।
॥ २६ ॥
****************O***@*** →→**•
www.kobatirth.org
तो परिठावंते बहिया य विहारमादिसु लहुगो । अन्नयरं उवगरणं दिठं संका न घेच्छति ॥ १५५ ॥ किं हुज परिठवियं पम्फुठा वावितो न गेरहंति । किं एयस्सन्नस्स वसं किज्जइ गेरहमाणोवि ।। १५६ ।। अन्तर्ग्रामादीनां मध्ये बहिर्विचारभूमौ वा परिस्थापयति विस्मरति पम्हठंति वा परिठवियं ति वा एगहमिति वचनात् प्रायश्चित्तं लघुको मासः । कस्मादीदृशं प्रमादं करोतीति हेतोः कः पुनर्दोषो यदि विस्मृतमत श्राह अन्यतरत् जघन्यं मध्यममुत्कृष्टं वा उपकरणं दृष्टं ततो जाता शंङ्का शंकातश्च न केचनापि ग्रहीष्यंति, शङ्कामेव स्पष्टतरां भावयति । किं होज्जेत्यादि साघवस्तदन्यतरत् उपकरणमन्तर्बहिर्दृष्ट्वा शङ्कन्ते किमेतत् परिष्ठापितमुतकस्यापि विस्मृतं भवेत् । एवं शङ्कमानास्तदुपकरणं विस्मृतं न गृहन्ति यतो गृह्णन्नपि जनैः स शंक्यते । तथाहि तत्पतितं गृहन्तं संयतं कोऽपि दृष्ट्वा शङ्केत किमेतस्य अन्यस्य वा मुक्तं वा भवति । किमात्मीयं पतितं गृह्णाति किंवापरकीयं कस्यापि दानार्थमेवं शङ्कासंभवे तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ निःशङ्कितं परेषां स्यात्तदा चतुर्गुरुकं । एवं शङ्कासंभवतो न गृह्णन्ति तस्मिंश्रागृह्यमाणे इमे दोषाः ।
थिग्गलधुत्तापोत्ते बालगचीराइएहिं अहिगरणं । बहुदोसतमाकप्पा परिहाणी जा विणा तं च ॥ १५७ ॥ तत्पतितं यथा लघु स्वकमुपकरणं गृहस्थैर्दृष्टं ततस्ते तत् गृहीत्वाऽन्यस्य छिद्रवतो वस्त्रस्य थिग्गलकं कुर्वन्ति, तथा प्रचान्य पोतकानि वहिकापट्टादिरूपाणि कुर्युर्यदि वा उत्तानशायिनां बालकानां योग्यानि चीवराणि विदधरिन् । इत्येवमादि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभाग।
अ० उ०
॥ २६ ॥