________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KA
|
भी व्यवहारसूत्रस्य पीठिका
| अष्टम विभाग भ००
नंतर।
किंतुअदिन्नविचारे कोट्ठारादीसु जत्थतणफलगा; रक्खिजते तहियं, अणणुन्नाए नठायंति ॥१४॥
आस्ता दत्तविचारे अनुज्ञापनमंतरेण न तिष्ठतु, प्रागुक्तदोषसंभवात् किंतु अदत्तविचारेष्वपि, गाथायामेकवचनमपि शब्दलोपश्चार्षत्वात् न दत्तो विचारप्रदेशो यत्रतान्यदत्तविचाराणि तेष्वपि केवित्याह कोष्ठागारादिषुकोष्ठागारं धान्यस्य तृणादीनां वा आदिशब्दात् चतुःशालादीनि तथा देवकुलं गोष्टिकादीनां वा गृहाणि यत्र गोष्टिकादयः समवायं कुर्वन्ति तानि दत्तविचाराणि गृह्यन्ते तेषु कोष्टामारादिषु यत्र येषु तृणफलकानि रक्ष्यन्ते, तथाहि-प्रतीतमेतत्कोष्टागारादिषु मा कोऽपि किमपि हार्षीरिति प्राहरिकमोचनेन तृणानि फलकानि धान्यानि च प्रयत्नेन रक्ष्यन्ते । तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति किमर्थमिति चेदत पाहदोसाणरक्खणठा चोएइ निरत्थयं ततो सुत्तं। भन्नइ कारणियं खलु, इमे य ते कारणा हुंति ॥१४१॥
दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गादिरूपाणां रक्षणार्थ रक्षणाय तत्र न तिष्ठन्ति अत्र परचोदयति, यद्येवं ततः सूत्रं इह खलु निग्गंथाण वा निग्गंथीण वा नो खलु भे पाडिहारिए इत्यादि निरर्थकमविषयत्वात् सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमनुज्ञातमिति सूरिराह-भण्यते उत्तरं दीयते इदं खलु सूत्रं कारणिकं कारणैर्निवृत्तं तानि च कारणानि इमानि वक्ष्यमाणानि भवन्ति तान्येवाहश्रद्धाणे अठाहिय उमसिवे गामणुगामियविवेले । तेणासावयमसगा सीयं वासं दुरहियासं ॥ १४२॥
For Private and Personal Use Only