________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमदत्तं विचारे शालादौ द्रष्टव्यं, दत्तविचारं नाम यत्र कार्पटिकादिर्न कोऽपि वार्यते । तच्च सभा वा प्रपा वा मण्डपको | वा यान्यपि च तत्र तृणफलकादीनि तान्यप्यनुज्ञातानि । तथा चाह-यत्र कापेटिकानां तृण फलकादीन्यनुज्ञातानि भवन्ति । तेष्वपि दत्तविचारेषु सभाप्रपादिषु यानि तृणफलकादीनि तान्यपि किमित्याहताणवि उन कप्पंती अणणुण्णवियं मि लहुक मासो उ।इत्तिरियपि न कप्पइ तम्हाउ अजातितोग्गहणं।
तान्यपि अननुज्ञापिते स्वामिनि गृहीतुं न कल्पते, यदि पुनरननुज्ञाप्य गृह्णाति तदा प्रायश्चित्तं लघुको मासः। कस्मादेवमत आह-यस्मादित्वरमपि क्षणमात्रमपीत्यर्थः अवग्रहसमयाचितं न कल्पते उक्तं चइत्तिरियपि न कप्पइ अविदिन्नं खलु परोग्गहादीसु। चिठित्तु निसीयतु व तइयव्वय रक्खणठाए । ' तथा अननुज्ञापने तिष्ठत इमे च दोषाः जावंति य दोसावा अदत्तनिच्छुभणदिवस रातो वा । एव दोसे पावइ दिन्न वियारे विठायते ॥१३॥ ___अननुन्नातो दत्तविचारेपि यदि तिष्ठति तदा यावन्तिकदोषस्तथा अदिति अदत्तदानगृहणदोषश्चोपजायते तथा कदाचित्स सभादिस्वामी प्रान्तो त्रूयात् । केनामीपामत्र स्थानं दत्वं नझमीषां योग्यमिति ततो रुष्टः सन् दिवसे रात्री वा निष्का| शनं कुर्यात् । तस्माद्दत्तविचारेऽप्यननुज्ञाप्य तिष्ठन् एतान् दोषान् प्राप्नोति तस्मात्तत्रापि पूर्वमनुज्ञाप्य पश्चात्कल्पते स्थातुमेवं सति यावन्तिकदोषो न भवति स्वामिसत्कं कृत्वा तदनुज्ञापनाददत्तादानं निष्काशनं च नभवतीति
For Private and Personal Use Only