________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्राद्यगाथा पदानां द्वितीयगाथोक्त प्रायश्चित्तैः सह यथासंख्येन योजना सा चैवमथ पुनः स्थापयेदेषु वक्ष्यमाणेषु स्थानेषु गाथायां तृतीया सप्तम्यर्थे । ततः प्रायश्चित्त संभवस्तत्र यदि शून्ये स्थापयति चतुर्लघु । अग्निकर्मिकायामपि शालायां स्थापने चतुर्लघुका, अग्निना यदि कथमप्युपकरणस्य दाहस्तदा तनिष्पन्नमपि प्रायश्चित्तं, जुगुप्सिते जुगुप्सितगृहेषु स्थापयतश्चतुर्लघु । तस्मादेतानि स्थानानि वर्जयित्वा वक्ष्यमाणेषु स्थानेषु स्थापयेत् । यत्र स्थापयति ते अनुज्ञापयितव्याः । अननुज्ञापने मासलघु दीर्घा भिक्षाचर्या करोति मासलघु । बहुसु मुंजति प्रायश्चित्तं चत्वारो लघवो भवन्ति । खद्धाइयणे इति खद्धस्य प्रचुरस्य अदने भक्षणे सतीत्यर्थः । तथा अप्राप्त संखडिं प्रतीक्षमाणस्य प्रायश्चित्तं चत्वारो गुरुकाः । सम्प्रति येषु स्थानेषु स्थापयेतानि दर्शयति-- असतीए मणुन्नाणं सव्वोवहिणा व भदएK वा। देसकसिणेव घेत्तुं हिंडइ सइ लंभे पालोए ॥११२॥
यदि समनोज्ञाः सन्ति तर्हि तेषूपकरणं स्थापयितव्यम् । तेषामसत्यभावेऽमनोज्ञानामपि असांभोगिकानामप्युपाश्रये स्थापयेत् । यदि वा सर्वेणाप्युपधिना गृहीतेन हिण्डते यदि शक्तिरस्ति, अशक्ती पार्श्वस्थादिष्वपि स्थापयति । यदि वा यथा भद्रकेषु गृहेषु स्थापयति देसकसिणे वा घेत्तुमिति समस्तस्योपधिर्देशभूतानि यानि कृत्स्नानि परिपूर्णानि कन्पादीनि तानि गृहीत्वा भिक्षामटति । अशक्तौ तान्यपि मुक्त्वा परिभ्रमति । तत्र सति लाभे तेषु गृहेषु भिक्षामटति येष्वटन् उपकरणं पश्यति । असतीए अविरहियम्मिणितिक्कादीण अंतीए ठवए। देजह उहाणंतिय जावउ भिक्खं परिभमामि।११३।
For Private and Personal Use Only