________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्य दीयते अग्रेतनं तु सांभोगिकमुपकरणं निवर्त्यते । २७२ संविग्गमसंविग्गे सारूवियसिद्धपुत्तमणुसठे । आगमणं श्राणयणं तं वा घेत्तुं न इच्छंति ॥ २७३ ॥
संविग्नाः सांभोगिकाः असांभोगिका वा उद्यतविहारिणः असंविग्नाः पार्श्वस्थावसनकुसीलसंसक्तयथाच्छन्दाः सारूपिकसिद्धपुत्रो नाम मुण्डितशिखो रजोहरणरहितोऽलावुपात्रेण मिचामटन समार्यो वा एतैरनुशिष्टस्य यदि आगमनं तत उपहतो. पकरणस्य वा प्रायश्चित्तदानं ते वा संविग्नादयो गृहीत्वा तस्यानयनं कुर्वन्ति । अथ स भानयनं नेच्छति तदा वक्ष्यमाणो विधिः । एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुराहसंविग्गाण सगासे वुच्छो तेहिं अणुसासिय नियत्तो। लहुतो ना वा हम्मत्ति इयरे लहुगा उवहतो य॥
यदि संविग्नानां समीपे उषितः तैश्चानुशिष्टः प्रतिनिवृत्तो वसतिं समागतः तदा तस्य प्रायश्चित्तं लघुको मासः। न च तस्योपधिरुपहन्यते यं चान्तरा लमते गृह्णाति चोपधि सोऽपिनोपहन्यते संविमानां समीपे उषितः संविनैः सहागमनाच । इतरे नाम असंविज्ञाः पार्श्वस्थादयः सारूपिकसिद्धपुत्रश्च तेषां समीपे याषितस्तैश्चानुशिष्टः प्रतिनिवृत्तः तस्यागतस्य प्रायचित्तं चत्वारो लघव उपकरणं च तस्योपहन्यते । यथाच्छन्दस्य सकाशे उषितस्य चतुर्गुरुकम् । साम्प्रतमागमनद्वारमाहसंविग्गादणुसिट्रो तदिवसनियत्तोजइविन मिलेजा। न य सजइ वइयादिसुचिरेण विहुतो न उवहम्मे ॥
संविग्नरादिशब्दादसंविग्नैश्चानुशिष्टो यदि तत्र नोषितः किन्तु तस्मिन्नेव दिने प्रतिनिवृत्तो यद्यपि तस्मिमेव दिने न
For Private and Personal Use Only