SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टम भी व्यवबारपत्रस्य विमाग प्र०3० ॥५१॥ प्रत्यागतस्तहि शुद्धः अथ मासं यावद्वहिरूषितस्तदा तदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमनुशिष्ट्यादीनि च क्रियन्ते आदिशब्दादुपधृहणादिपरिग्रहः । सम्प्रति स्थानत्रयेण संवेगभावनामाहअज्जेव पडिपुच्छं को दाहिइ संकियस्स मे उभए । दसणे क उववृहे कं थिरकरे कस्स वच्छल्लं ॥२७॥ सारेहिंति सीयंतं चरणे सोहिं च काहिति को मे। एवं नियत्तणुलोमं काउं उवहिं च तं देंति ।। २७१। ___ अद्यैव उभयस्मिन् सूत्रे अर्थे च शङ्कितस्य का प्रतिपृच्छा दास्यति एषा ज्ञाने चिन्तना ।, दर्शने कमहमिदानीमुपबृंहि* प्यामि के वा स्थिरीकरिष्यामि कस्य वा वात्सन्यमधुना करिष्यामि । चारित्रे चिन्ता मां चरणे सीदन्तमिदानी का सारयि| ष्यति । को वा मे प्रायश्चित्तस्थानमापन्नस्य शोधिं करिष्यति एवं चिन्तयन् संवेगमापनः। सम्प्रति निवर्तते तस्य प्रतिनि वृत्तस्य गच्छं प्रत्यागतस्यानुलोमना कर्तव्या धन्योऽसि त्वं येनात्मा प्रत्यभिज्ञात एवमनुलोमनां कृत्वा तस्य तमेवोपर्षि प्रयच्छन्ति । सम्प्रत्यवधाविनमधिकृत्य प्रतिपिपादयिषुराहदुविहो उहाविओ वसभा सारेंति भयाणि वा से साहिति । अठारसठाणाई हयरस्सिगयं कुसनिभाई। द्विविधमप्यवधाविनमाचार्यमापृच्छय व्रजन्तं वृषभाः सारयन्ति शिक्षयन्ति भयानि वा से तस्य साधयन्ति कथयन्ति रतिवाक्यचूलिकाभिहितानि अष्टादशस्थानरूपाणि हयरश्मिगजाडशनिभानि । एतया अनुशिष्ट्या अनुशासितो यदि तिष्ठति ततः सुन्दरमथ न तिष्ठति तहि यत् खग्गूडेनोपहतमाचारभाण्डं यद्वा असांभोगिकेभ्यः समागतस्योपसम्पन्नस्य सम्बन्धि ॥५१॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy