________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ist astaka 3rd ch. 1
Introductory J
१५२
१
.
अनुकामं विभक्त्यर्थे नानोरर्थोऽस्ति कश्चन । पश्चात्कामस्य यद्वास्तु तथाप्यन्ते स्वरो भवेत् ॥१६॥ प्रतिदोघं गृणानोऽत्र वीप्सां द्योतयति प्रति। दोषाशब्दो वाचकश्च ततस्तस्मिन् स्वरः स्थितः ॥१७॥ अथ विग्रहवाक्यानि विस्पष्टप्रतिपत्तये ।। सुरूपकर्मणां कर्ता पुरूणां च तथा प्रियः ॥१८॥ भाग्येनायं तु संभक्तो विप्रैराकृष्यते तया । तव सख्यं न हिंसितमयोद्धेत्यस्य विग्रहः ।।१६।। न यः समर्थो युद्ध इति युद्धासामर्थ्यदर्शनम् । प्रधान इन्द्रो वायुश्च मित्रश्च वरुणोऽपि च ।।२०।। अग्नेः ऋतुः कविः कान्तो बहुव्रीहेस्तु विग्रहः । उरुरस्ति क्रमो यस्य त्रीणि चक्राणि सन्ति च ॥२१॥ कामेषु तर्पयेथां नः पश्चात् कामस्य वा पुनः । रात्रौ रात्रौ प्रतिदोषमिति विग्रहदर्शनम् ॥२२॥ सर्वेष्वेषु समासेषु यत्र यत्र स्वरो भवेत् । काशं कुशं वावलम्ब्य स्वरं तं स्थापयेदिति ॥२३॥
१. नानोरक्षस्ति P. २. विप्सां P. ३. प्रतिः R. ४. दोषश० P. ददोषाश० M. ५. वाचतर्प P. ६. ०त्तेये P. ७. स्वरू० P. ८. कृत्ता M. ६. पुरु० P.
१०. प्रिया P. D. ११. ताग्ये० P. भगेना० R. १२. विलरा० P. १३. व्यद्धे० P. ०योध्येत्यन्य वि० M. १४. प्रथान R. १५. क्रान्तो M. R. १६. उत्ररस्मिन्तमो यस्य M.
विस्तीर्णो विक्रमो यस्य R.
For Private and Personal Use Only