SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो ७३ सम्प्रति वर्तते वर्षासमयः । नियम- परिपालनतः आवश्यकं उचितं च कुक्षि- परिपालनम् । नास्ति आपत्काले मर्यादा' इति विदिता लोकोक्तिः । तस्मात् मुञ्च, अज्ञान प्रतिपन्नां सुखकाल - पालनीयां प्रतिज्ञाम् । निर्वहन्तु ते धर्म-नियमान् ये सन्ति धनाढ्याः विपुल - विभूतिमन्तः येषां न कापि अर्जन चिन्ता । त्वादृशानां कृते कुत्र धर्म - मन्दिरप्रवेशनावकाशः । तस्मात् छिन्धि भोः ! छिन्धि हरित-काष्ठानां निकुरम्बम् ।" अनुचितं उदीरणं तेषां धर्मिष्ठ श्रेष्ठिने न रुचितम् । उद्दिप्तज्ञानगाम्भीर्यं प्रत्युत्तरितं श्रेष्ठिना - " न ज्ञातं भोः ! युष्माभिर्धर्मतत्त्वम् । न धर्माचरणे लक्ष्मीपुत्राणां धन-दरिद्राणां वा परिविशेषः । लब्धतत्त्वः तुच्छोऽपि अतुच्छ- धर्मकारकः । रहस्यवन्ध्यः ईश्वरोऽपि धर्म कतु अनीश्वरः । नूनं आपदि एव राजते कषपट्टवतितं सुवर्णवद् धर्मम् । उदर-परिपालनं तु श्वानोऽपि करोति समन्तात् भ्रमन् । तत्र किं चोज्जं (आश्चर्यम् ) ? मनुजस्य एतदेव माहात्म्यं यत् एष प्राणैरपि माहात्म्यमर्पयति अनुत्तराय धर्माय । शुष्केन्धनानां प्राप्तिरपि कथं न भविष्यति यदाहं अविश्रामं परिश्रमं करिष्यामि । विमार्गितं किं न अग्रतः आयास्यति ? त्रोटित व्रतानां किं जीवनं जीवनम् ? अक्षत प्रतिज्ञानां दुःखमपि शुभंकरम् तस्मात् मया न कदापि हातव्यं व्रतम् । एवं कथयित्वा एकाकी निर्भयः श्रेष्ठी शुष्ककाष्ठ-लब्धये गहन वने गतः । भृशं अन्वेषणा कृता अनेन, परन्तु न एका पि अचित्तकाष्ठयष्टिः हस्तमागता अस्य । तथापि अनुदासीनो रिक्तहस्तः प्रत्यावलितः गृहे विलम्बेन श्रेष्ठी । १ विदिता २ अर्जन - चिन्ता ३ त्वादृशानाम् ४ अनुचितम् ५ राजते ६ आश्चर्यम् ७ हातव्यम् ८ अचित्तकाष्ठयष्टिः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy